SearchBrowseAboutContactDonate
Page Preview
Page 845
Loading...
Download File
Download File
Page Text
________________ यभागखण्डमानत्वात् , तेभ्यो बादरवायुकायिकाः पर्याप्ता असङ्ख्येयगुणाः, धनीकृतस्य लोकस्यासङ्ख्येयेषु प्रतरेषु सङ्ख्याततमभागवर्तिपु यावन्त आकाशप्रदेशास्तावत्प्रमाणत्वात्तेषां, तेभ्यो बादरवनस्पतिकायिका: पर्याप्ता अनन्तगुणाः, प्रतिवादरैकैकनिगोदमनन्तानां जीवानां भावात् , तेभ्यः सामान्यतो बादरपर्याप्तका विशेषाधिकाः, बादरतेजस्कायिकादीनामपि पर्याप्तानां तत्र प्रक्षेपात् ॥ गतं तृतीयमल्पबहुत्वमिदानीमेतेषामेव प्रत्येकं पर्याप्तापर्याप्तगतमल्पबहुत्वमाह-एएसि णमित्यादि, इह बादरैकैकपर्याप्तनिश्रयाऽसत्येया बादरा अप प्तिा उत्पद्यन्ते, "पजत्तगनिस्साए अपजत्तगा वकमंति, जत्थ एगो तत्थ नियमा असंखेजा" इति वचनात , ततः सर्वत्र पर्याप्तेभ्यो |ऽपर्याप्ता असङ्ख्येयगुणा वक्तव्याः । वादरत्रसकायिकसूत्रं तु प्रागुक्तयुक्त्या भावनीयम् ॥ गतं चतुर्थमप्यल्पबहुखं, सम्प्रत्येतेषामेव समुदितानां पर्याप्तापर्याप्तानां पञ्चममल्पबहुत्वमाह-एएसि णमित्यादि, सर्वस्तोका बादरतेजस्कायिकाः पर्याप्ताः, तेभ्यो बादरत्रसकायिकाः पर्याप्ता असलयेयगुणाः, तेभ्यो बादरप्रत्येकवनस्पतिकायिकाः पर्याप्ता असङ्ख्येयगुणाः, तेभ्यो बादरनिगोदाः पर्याप्ता अस-11 येयगुणाः, तेभ्यो बादरपृथिवीकायिकाः पर्याप्ता असङ्ख्येयगुणाः, तेभ्यो बादराप्कायिकाः पर्याप्ता असलयेयगुणाः, तेभ्यो बादरवायुकायिकाः पर्याप्ता असल्येयगुणाः, एतेषु पदेषु युक्तिः प्रागुक्ताऽनुसरणीया, तेभ्यो बादरतेजस्कायिका अपर्याप्ता असहयेयगुणाः, यतो बादरवायुकायिकाः पर्याप्ता असङ्ख्येयेषु लोकाकाशप्रदेशेषु यावन्त आकाशप्रदेशास्तावत्प्रमाणा: बादरतेजस्कायिकाश्चापर्याप्ता असङ्ख्ये| यलोकाकाशप्रदेशप्रमाणास्ततो भवन्त्यसोयगुणाः, ततः प्रत्येकबादरवनस्पतिकायिकवादरनिगोदबादरपृथिवीकायिकबादराप्कायिकबादरवायुकायिका अपर्याप्ता यथोत्तरमसङ्ख्येयगुणा वक्तव्याः, यद्यपि चैते प्रत्येकमसयेयलोकाकाशप्रदेशप्रमाणास्तथाऽप्यसङ्ख्यातस्यासङ्ख्यातभेदभिन्नत्वादित्थं यथोत्तरमसङ्ख्येयगुणत्वं न विरुध्यते, तेभ्यो बादरवायुकायिकापर्याप्तेभ्यो बादरवनस्पतिकायिका जीवाः प जी० ७१ Jan Education For Private Personel Use Only W w.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy