Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 882
________________ श्रीजीवाजीवाभि० मलयगि रीयावृत्तिः ॥ ४३९ ॥ Jain Education Inte काय स्थितिमाह – ' णाणी णमित्यादि प्रनसूत्रं सुगमं, भगवानाह - गौतम ! ज्ञानी द्विविधः प्रज्ञप्तस्तद्यथा - सादिको वाऽपर्यवसितः, स च केवली केवलज्ञानस्य साद्यसपर्यवसितत्वात्, सादिको वा सपर्यवसितो मतिज्ञानादिमान् मतिज्ञानादीनां छद्मस्थिकतया सादिसपर्यवसितत्वात्, 'तत्थ ण' मित्यादि, तत्र योऽसौ सादिकः सपर्यवसितः स जघन्येनान्तर्मुहूर्त्त, सम्यक्त्वस्य जघन्यत एतावन्मात्र | कालत्वात् सम्यक्त्ववतश्च ज्ञानित्वात्, यथोक्तम् -“सम्यग्दृष्टेर्ज्ञानं मिध्यादृटेर्विपर्यास" इति, उत्कर्षतः षट्षष्टिः सागरोपमाणि सातिरेकाणि, सम्यग्दर्शन कालस्याप्युत्कर्षत एतावन्मात्रत्वात्, अप्रतिपतितसम्यक्त्वस्य विजयादिगमनश्रवणात् तथा च भाष्यम् "दो वारे विजयाइ गयस्स तिन्निबुए अहव ताई । अइरेगं नरभवियं नाणाजीवाण सव्वद्धा || १ ||" [द्वौ वारौ विजयादिषु गतस्य अथवा त्रीनच्युते तानि । अतिरेको नरभविकं नानाजीवानां सर्वाद्धा ॥ १ ॥ ] 'अण्णाणी णं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! अज्ञानी त्रिविधः प्रज्ञप्तस्तद्यथा - अनादिको वाऽपर्यवसितः अनादिको वा सपर्यवसितः सादिको वा सपर्यवसितः, तत्रानाद्यपर्यवसितो यो न जातुचिदपि सिद्धिं गन्ता, अनादिसपर्यवसितो योऽनादिमिध्यादृष्टिः सम्यक्त्वमासाद्याप्रतिपतितसम्यक्त्व एव क्षपकश्रेणि प्रतिपत्स्यते, सादिसपर्यवसितः सम्यग्दृष्टिर्भूत्वा जातमिध्यादृष्टिः, स जघन्येनान्तर्मुहूर्त्त सम्यक्त्वात् प्रतिपत्य पुनरन्तमुहूर्त्तेन कस्यापि सम्यग्दर्शनावाप्तिसम्भवात् उत्कर्षेणानन्तं कालं, अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽपार्द्ध पुगलपरा वर्त्त देशोनं ॥ साम्प्रतमन्तरं प्रतिपादयति — 'णाणिस्स णं भंते!' इत्यादि, ज्ञानिनो भदन्त ! अन्तरं कालतः कियचिरं भवति ?, भगवानाह - गौतम ! सादिकस्यापर्यवसितस्य नास्त्यन्तरं, अपर्यवसितत्वेन सदा तद्भावापरित्यागात्, सादिकस्य सपर्यवसितस्य जघन्य - तोऽन्तर्मुहूर्त्त, एतावता मिथ्यादर्शनकालेन व्यवधानेन भूयोऽपि ज्ञानभावात्, उत्कर्षेण अनन्तं कालं, अनन्ता उत्सर्पिण्य वसर्पिण्यः For Private & Personal Use Only ९ प्रतिपत्ती सर्वजीव ज्ञानि स्थि त्यादिः उद्देशः २ सू० २४६ ॥ ४३९ ॥ ainelibrary.org

Loading...

Page Navigation
1 ... 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938