________________
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
॥ ४३९ ॥
Jain Education Inte
काय स्थितिमाह – ' णाणी णमित्यादि प्रनसूत्रं सुगमं, भगवानाह - गौतम ! ज्ञानी द्विविधः प्रज्ञप्तस्तद्यथा - सादिको वाऽपर्यवसितः, स च केवली केवलज्ञानस्य साद्यसपर्यवसितत्वात्, सादिको वा सपर्यवसितो मतिज्ञानादिमान् मतिज्ञानादीनां छद्मस्थिकतया सादिसपर्यवसितत्वात्, 'तत्थ ण' मित्यादि, तत्र योऽसौ सादिकः सपर्यवसितः स जघन्येनान्तर्मुहूर्त्त, सम्यक्त्वस्य जघन्यत एतावन्मात्र | कालत्वात् सम्यक्त्ववतश्च ज्ञानित्वात्, यथोक्तम् -“सम्यग्दृष्टेर्ज्ञानं मिध्यादृटेर्विपर्यास" इति, उत्कर्षतः षट्षष्टिः सागरोपमाणि सातिरेकाणि, सम्यग्दर्शन कालस्याप्युत्कर्षत एतावन्मात्रत्वात्, अप्रतिपतितसम्यक्त्वस्य विजयादिगमनश्रवणात् तथा च भाष्यम् "दो वारे विजयाइ गयस्स तिन्निबुए अहव ताई । अइरेगं नरभवियं नाणाजीवाण सव्वद्धा || १ ||" [द्वौ वारौ विजयादिषु गतस्य अथवा त्रीनच्युते तानि । अतिरेको नरभविकं नानाजीवानां सर्वाद्धा ॥ १ ॥ ] 'अण्णाणी णं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! अज्ञानी त्रिविधः प्रज्ञप्तस्तद्यथा - अनादिको वाऽपर्यवसितः अनादिको वा सपर्यवसितः सादिको वा सपर्यवसितः, तत्रानाद्यपर्यवसितो यो न जातुचिदपि सिद्धिं गन्ता, अनादिसपर्यवसितो योऽनादिमिध्यादृष्टिः सम्यक्त्वमासाद्याप्रतिपतितसम्यक्त्व एव क्षपकश्रेणि प्रतिपत्स्यते, सादिसपर्यवसितः सम्यग्दृष्टिर्भूत्वा जातमिध्यादृष्टिः, स जघन्येनान्तर्मुहूर्त्त सम्यक्त्वात् प्रतिपत्य पुनरन्तमुहूर्त्तेन कस्यापि सम्यग्दर्शनावाप्तिसम्भवात् उत्कर्षेणानन्तं कालं, अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽपार्द्ध पुगलपरा वर्त्त देशोनं ॥ साम्प्रतमन्तरं प्रतिपादयति — 'णाणिस्स णं भंते!' इत्यादि, ज्ञानिनो भदन्त ! अन्तरं कालतः कियचिरं भवति ?, भगवानाह - गौतम ! सादिकस्यापर्यवसितस्य नास्त्यन्तरं, अपर्यवसितत्वेन सदा तद्भावापरित्यागात्, सादिकस्य सपर्यवसितस्य जघन्य - तोऽन्तर्मुहूर्त्त, एतावता मिथ्यादर्शनकालेन व्यवधानेन भूयोऽपि ज्ञानभावात्, उत्कर्षेण अनन्तं कालं, अनन्ता उत्सर्पिण्य वसर्पिण्यः
For Private & Personal Use Only
९ प्रतिपत्ती सर्वजीव
ज्ञानि स्थि
त्यादिः उद्देशः २
सू० २४६
॥ ४३९ ॥
ainelibrary.org