________________
तपःकर्मोग्रम्-इतरजन्तुभिर्दुरध्यवसेयं, विशेषतो वर्द्धमानस्य सम्बन्धि तपो दुरध्यवसेयं, वक्ष्यमाणन्यायेन सोपसर्गत्वादपानकत्वाद्बहुत्वाच्च, सातिरेकद्वादशवर्षमानछद्मस्थकाले हि तस्य वर्षमप्येकादशभिर्दिनैयूंनं पारणककालो वक्ष्यते, शेष तु उपोषितस्तस्थौ, एतच्च सर्बमपानकं सोपसर्ग चेति शेषतीर्थकृयो दुरध्यवसेयतममिति गाथात्रयार्थः । इदं च चिरन्तनानुयोगपटदर्शनाद्यनुसारतो मया व्याख्यातं इति न स्वमनीषिका भाव्येति । अत्र कल्याणकैः सार्द्ध क्वचिद्व्यभिचारोऽपि दृश्यते, स तु न प्रतन्यते, केवलिगम्यत्वात्तन्निर्णयस्येति । शिष्यसङ्ग्रहरूपे सङ्ग्रहद्वारे यतिमानप्रतिपादनायाह-'चुलसीति' गाहा, तिन्नि यगाहा, छावट्ठीगाहाचोदस'गाथा (प०१३९)व्याख्या-आदितीर्थकृतः चतुरशीतिः सहस्राणि यतिशिष्य| सङ्ग्रहप्रमाणं १, एक लक्षं २ लक्षद्वयं ३ त्रीणि लक्षाणि ४ विंशतिसहस्राधिकानि त्रीणि लक्षाणीति ५ त्रिंशत्सहस्राधिकानि त्रीणि लक्षाणि ६ त्रीणि लक्षाणि ७ सार्द्धलक्षद्वयं ८ लक्षद्वयं ९ एक लक्षम् १० चतुरशीतिः सहस्राणि ११ द्विसप्ततिः सहस्राणि १२ अष्टषष्टिः सहस्राणि १३ षट्षष्टिः सहस्राणि १४ चतुःषष्टिः सहस्राणि १५ द्विषष्टिः सहस्राणि १६ षष्टिः सहस्राणि १७ पञ्चाशत्सहस्राणि १८ चत्वारिंशत्सहस्राणि १९ त्रिंशत्सहस्राणि २० विंशतिः सहस्राणि २१ अष्टादश सह-18 |स्राणि २२ षोडश सहस्राणि २३ चतुर्दश सहस्राणि २४ । एवं चतुर्विंशतितीर्थकृतां सर्वसङ्ख्यायामागतं यतीनामष्टाविंशतिर्लक्षाणि अष्टचत्वारिंशत्सहस्राणि, आह च-"अट्ठावीसं लक्खा अडयालीसं च तह सहस्साई । सबेसिपि जिणाणं जईण माणं विणिद्दिठं ॥१॥" तदेतजिनानामृषभादिवर्धमानान्तानां यथाक्रम यतिशिष्यसङ्ग्रहप्रमाणं विज्ञेयमिति सार्द्धगाथात्रयार्थः । साम्प्रतं आर्यासङ्ग्रहप्रतिपिपादयिषया गाथादलेन प्रस्तावनामाह-आर्यासङ्ग्रहमानमृषभादीनामितोऽनन्तरं
Jain Educati
o
nal
For Privale & Personal Use Only
Www.jainelibrary.org
त