Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Educatio
मांसखण्डानि कल्पयन्ति, तथा "सीहपुच्छाणी" ति पृष्ठप्रदेशबद्धांस्तांरिछन्दन्त्युत्कर्त्तयन्ति, "खावेंति” त्ति ये प्राग्मांसा - शिनो नारका आसंस्ताँश्च खादयन्ति स्वशरीरमांसानीति गम्यन्त इति । 'हत्थे' त्यादिगाथा ( ६५१ - ६ ), सुगमा । 'कन्नो'गाहा (६५१-६), तथा कण्णौष्ठनाशाकरचरणदशनस्तनपुतोरुबाहूनां छेदनभेदनशातनानि कुर्वन्ति, तथा असिपत्रवनं बीभत्सं | कृत्वा छायार्थिनस्तत्रागतान्नारकान्नानाविधैः प्रहरणैः “ अभिवाडेंति"त्ति अभिपाटयन्ति - विदारयन्ति, के एतत्कुर्वन्तीत्याह - " असिपत्तधणू "त्ति असिप्रहरणप्रधानाः पत्रधनुनामानो नरकपाला एतत्सर्वं कुर्वन्तीत्यर्थः । ' कुंभीसु गाहा (६५१-८) कुम्भीनामानो नरकपाला नरकेषु नारकान् घ्नन्ति पचन्ति च क्वेत्याह- कुम्भीषु पचनकेषु लोहीषु च एतेषु पूर्वोक्तस्वरूपेषु कन्दुलहिकुम्भीषु पुनः कन्दुकानामिवायोमयभाजन विशेषरूपासु कोष्ठिकाकृतिषु व्यवस्थाप्य विभावसौ पचन्तीति । 'तडतडतडस्से' त्यादि ( ६५१ - ९ ) गाथा, वालुकाख्या नरकपाला नारकानत्राणांस्तप्तवालुका भृतभाजने चणकानिव तडतडत्ति स्फुटतः " भजन्ति "त्ति भृज्जन्ति - पचन्ति केत्याह-कदम्बपुष्पाकृतिर्वालुका कदम्बवालुका तस्याः पृष्ठ - उपरितलं तस्मिन् पातयित्वाऽम्बरतले लोलयन्तीति । 'पूअरुहिरे' त्यादि ( ६५१ - १० ) गाथा वैतरणीना - मानो नरकपाला वैतरणी नदीं विकुर्वन्ति सा च पूयरुधिरकेशास्थिवाहिनी महाभयानका कलकलायमानजतुश्रोताः - कथ्यमानलाक्षासदृशश्रोता इत्यर्थः, तस्यां च तप्तक्षारोष्णजलायामतीव वीभत्सदर्शनायां नारकान्प्रवाहयन्तीति । ' कप्पेंती' त्यादि ( ६५१ - १० ), तत्र नरके खरस्वराख्याः परमाधार्मिका नारकानेवं कदर्थयन्ति, तद्यथा - क्रकचैः - करपत्रैः स्तम्भमिव कल्पयन्ति - विदारयन्ति, तथा तेषामेव हस्ते परशून् समर्प्य परस्परं तानेव तक्षयन्ति, परशुभिरन्योऽन्यं देहावयवानामुत्कर्त्तनं
tional
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242