Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
विद्यते यत्र वा क्षणे विशेषेषूपयुक्तस्तत्रापि सामान्यपरिज्ञाने लब्धिरस्ति, ततश्च य इह नैगमादिर्नयो लब्धिमिच्छति तन्मते-! नास्य सर्वज्ञता कदाचिदपि न हीयते, इत्थं चेदमङ्गीकर्तव्यं अन्यथैकस्मिन्काले तावदेकस्मिन्नेव ज्ञाने उपयोगो न बहुषु, अथ च छद्मस्थावस्थायामेष द्विज्ञानी त्रिज्ञानी चतुर्ज्ञानीत्यादयो व्यपदेशाः कथं सर्वदैव प्रवर्तेरन् ?, अथैकज्ञानोपयोगेऽपि लब्धितः शेषज्ञानान्यपि सन्तीति न सर्वदा शेषज्ञानैर्व्यपदेशो दुष्टः तदेतदिहापि समानमितिव्यवस्थितमेतद्-अयुगपदुपयोगप्रवृत्तावपि नैगमादिलब्धिनयमतेन सर्वदैव सर्वज्ञताऽस्य न झूयत इति, यदप्युक्तं-'युगपदेव ज्ञानदर्शने प्रवर्त्तयातां तथा च तयोरेकत्वं स्यादिति, तत्र जीवस्वाभाव्यात् तयोर्युगपत्प्रवृत्तिनेष्यते एवेति कुत एकत्वं ?, अथवा युगपत्प्रवृत्तिमभ्युपगम्याप्याह-'न पिहुयावरणाउ'त्ति (७२८-१४), युगपदुपयोगप्रवृत्त्यभ्युपगमेऽपि न ज्ञानदर्शनयोरेकत्वमित्यध्याहारः, कुत इत्यत्र हेतुमाह-पृथगावरणादिति, भावार्थः प्रयोगादवसेयः, स चायं-इह यस्य २ पृथगावारक कर्म आसीत् तत्तदवक्षेपे युगपत्प्रवृत्तावपि नैकीभवति, यथा-दर्शनावरणवीर्यान्तरायक्षयोद्भूते क्षायिकसम्यक्त्वानन्तवीर्ये, आसीच पृथगावारकं कर्म दर्शनज्ञानयोः ततः तत्क्षये युगपत्प्रवृत्तावपि नैकीभवत इति, यदिवाऽवबोधसामान्यमाश्रित्य द्रव्या[र्थिकमतेन दर्शनज्ञानयोरेकत्वमपि भवतीतिसिद्धसाध्यतैवेत्येतदाह-दवहिए'त्यादि पातनयैव व्याख्यातमिति, द्रव्यार्थि8 कमतमेव दर्शयति-'नाणनयेत्यादि, (७२८-१५), गाथा सुगमा, नवरं ज्ञाननयदर्शननयौ द्रव्यार्थिकभेदौ, द्रव्यार्थिको
हि सामान्यवादित्वादवबोधसामान्यमाश्रित्य सर्व ज्ञानमेवेदं दर्शनं वेत्यभ्युपगच्छतीति, अयुगपदुपयोगापेक्षया पूर्वमसर्वज्ञता | प्रेरिता तां पुनः प्रकारान्तरेण परिहर्तुमाह-'पासणयं वगाहा (७२८-१६), एतदुक्तं भवति-केवलज्ञानस्य केवल-2
Jain Education N
ona
For Privale & Personal use only
Gulaw.jainelibrary.org

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242