Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
आव० हारि० टीप्पणं
॥११७॥
SRA-
NAGARIKARACK
पर्युषणायामपि पारयति, ननु पर्युषणायां यदष्टमलक्षणं तपः क्रियते तदसौ क्षपकरतहि कदा करिष्यतीत्याह-'पजोस प्रत्याख्यान
वणा ओसारियत्ति (८४१-२०) यत्तेन मासक्षपणादिकं तपः कृतं तत्रैव तत् तपोऽन्तर्भाव्यत एवेति भावः, यदिवा है तीरं न प्राप्तः किन्तु विवक्षिततपस्यपरिसमाप्तेऽप्यसहिष्णुरिति स्वयं गुरुभिस्तत्र दिने पारणकं कारित इत्येतदेवाह
'असह सयं पारावितोत्ति ( ८४१-२०), तत्र विधिमाह-'ताहे सय'मित्यादि सुगमं । 'नियंटितं नाम नियमिय'मित्यादि (८४३-७), तत्रैकेन प्रकारेण तावन्नियन्त्रितं तपः प्राह-'जहा एत्थ काय'ति एतस्मिन्समये मासे दिवसे वा विवक्षिते तपः स्याद्विवक्षितं किञ्चित् नियमेन तावत्कर्तव्यमित्येव कश्चिन्नियम्य ततस्तपः करोति, प्रकारान्तरेणाह-वोच्छिन्नं अहवा छिन्नं जहा इत्थ अवस्सकायद्यमित्यादि, पूर्वमेव छिन्न-विशेषितं अभिग्रहं गृह्णाति, कथमित्याह-मासे अमुगे अमुगो चउत्थाइ तवो अमुगदिवसे इति चूर्णिणपाठः, प्रथमे नियमः सामान्यतो द्वितीये तु मासदिवसतपांसि विशिष्य नियमयतीति विशेष इति तात्पर्यार्थः । 'आयंबिलं च भवति आयंबिलपाउग्गं चेत्यादि| (८५५-१०), आचाम्लं नामोत्कृष्टं शालिकूरादिद्रव्यं तेन किलाचाम्लं क्रियते अत उपचारात्तदप्याचाम्लमुक्तं, इदं चोत्कृष्टत्वात्प्रायो न गृह्यते एवेत्यत आह-"आयंबिलं पाउग्गं चे"ति, एतच्च तन्दुलकणिकादि द्रष्टव्यं, अस्य च निरप-5 वादं ग्राह्यत्वात्प्रायोग्यत्वमुक्तमिति, एतच्चाचाम्लं पूर्वमोदनसत्कुककुल्माषभेदात्रिधोक्तं, तत्रौदनमाश्रित्याचाम्लं प्रायोग्य
॥११७॥ Viच दिदर्शयिषुराह-'तत्थ ओयणे आयंबिलं.त्यादि ( ८५५-१०), ओदनविषये आचाम्लं भवति, किं तदित्याह3 सप्त लोकप्रसिद्धाः कलमशाल्यादिकूरविशेषाः, यदिवा न सप्तैव, किन्तु यानि कानिचिल्लोके कूरविधानानि-कूरभेदास्ते |
+-
Jain Education dmonal
For Private & Personal Use Only
hwlainelibrary.org

Page Navigation
1 ... 238 239 240 241 242