Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 239
________________ “विगिट्ठ करेइ सबजहन्नो अट्ठम"ति, गुरवः-आचार्यास्तेषां पयुषणायां भक्तपानादि वैयावृत्त्यं विधेयमिति चेतसि निधाय परः प्रेरयति-ते किन्न करेंति'त्ति (८४१-१६), इदमुक्तं भवति-तेऽपि गुरवः पर्युषणायामुपवासं किं न विदधति ?, तद्विधाने च साधोगुरुवैयावृत्त्यासंभव एवेति पराभिप्रायः, अत्रोत्तरमाह-'असहू हुज्जत्ति उपवासे कर्तव्ये-४ ऽसहिष्णवः-असमर्था गुरवो भवेयुरिति न तपः कुर्वन्तीतिभावः, यदि गुरवोऽपि कुर्वन्त्येव तत्रोपवासं तर्हि गुरुवैयावृत्त्या-1 संभव इति चेन्न, यतो न भक्ताद्यानयनमेव गुरुवैयावृत्त्यं, किंत्वन्यदपीतिदर्शयति-'अण्णा काइ आणत्तिं पये' त्यादि (८४१-१७), तत्र दिने ग्रामान्तरादौ गुरवः प्रेषयेयुः शिक्षकादिनिमित्तं वा भक्तपानाद्यानयनं कारयेयुर्व्याख्यानादि४ श्रान्तानां वा तेषां शरीरे किश्चिद्वैयावृत्त्यं कर्त्तव्यं स्यादित्यन्यदपि गुरुवयावृत्त्यं संभवतीतिस्थितं, अत्र च विधिमाह'ताहे सो'इत्यादि ( ८४१-१९), अयमत्र भावार्थः-स च कश्चिद्विवक्षितसाधुरन्यो वा पर्युषणायामुपवासे वैयावृत्त्ये च कर्तव्ये यदि समर्थो भवति तदा स एव वैयावृत्त्यं कार्यते न पुनरनागतं कोऽपि तपःकर्म कार्यते, अथ द्वितये कर्तव्ये नास्ति कोऽपि क्षमस्तदा य उपवासकरणाक्षमस्तत्र दिने स्वत एव पारयिष्यति, स करोतु वैयावृत्त्यं अथ सोऽपि नास्ति न वा लभते भक्तपानादिकं वैयावृत्त्यविधिं न जानाति तदा स एव विवक्षितसाधुरनागतमेव तपःकर्म कार्यत इति, तपस्विवैयावृत्त्यविधिमाह-'तवस्सी नाम खवओ'इत्यादि (८४१-१९), तस्य भक्तादिभिर्वैयावृत्त्यं तत्र दिने कर्त्तव्यमिद्र त्युपजीव्य परः प्राह-सोऽपि क्षपकस्तदा पर्युषणायां किं न तपः करोतीति ?, अत्राचार्य आह-'सो तीरपत्तोत्ति (८४१-२०), एतदुक्तं भवति-यत्तेन तपः प्रारब्धमासीत् तस्य तपसस्तीरप्राप्तोऽसौ, समर्थितं तत्तपः इत्यर्थः, इत्यसौ। Jain Education For Private Personal Use Only

Loading...

Page Navigation
1 ... 237 238 239 240 241 242