Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 241
________________ Jain Education सर्वेऽप्याचाम्लं उच्यते, ओदनमाश्रित्य प्रायोग्यं, किं तदित्याह - तन्दुलकणिकाः प्रतीताः कुण्डकस्तु तन्दुलकणिकाविशेष | एव कश्चिदिति लक्ष्यते, पिष्टं पिष्टपूपलिकाश्च प्रतीताः “पिन्हुगं" ति पिहुंकः भरोला निस्वेदितलोट्टपिण्डिका - जनप्रतीताः मण्डकास्तु-पर्युषितोत्स्वेदिता गृह्यन्त इति व्याचक्षते गुरवोऽन्येषामुत्कृष्टत्वात्, तत्त्वं तु केवलिनो विदन्तीति । साम्प्रतं कुल्माषानाश्रित्याचाम्लं प्रायोग्यं च दिदर्शयिषुराह - 'कुम्मासा पुण पुव' मित्यादि ( ८५५ - १२ ) सुगमं । सक्तूना| श्रित्याह- 'सत्तुगा जवाण' मित्यादि सुवोधं, नवरं गोधूमयवभूज्जिका - धाणिका, शेषं प्रायः सुगमं यावत् प्रत्याख्याननिर्युक्तिः समाप्तेति । तत्समाप्तौ श्रीमदभयदेवसूरिचरणाम्बुजचञ्चरीकश्रीहेमचन्द्रसूरिविरचितमावश्यक वृत्तिप्रदेशव्याख्यानकं समाप्तमिति ॥ इति गुरुजनमूलादर्थजातं स्वबुद्ध्या, यदवगतमिहात्मस्मृत्युपादानहेतोः । तदुपरचितमेतत् यत्र किञ्चित्सदोषं, मयि कृतगुरुतोषैस्तत्र शोध्यं मुनीन्द्रैः ॥ १ ॥ छद्मस्थस्य हि मोहः कस्य न भवतीह कर्म्मवशगस्य ? | सद्बुद्धिविरहितानां विशेषतो मद्विधासुमताम् ॥ २ ॥ ग्रन्थाग्रं ४६०० छ । शुभं भवतु ॥ श्री ॥ इति श्रेष्ठि-देवचन्द्र लालभाई - जैनपुस्तकोद्धारे ग्रन्थाङ्कः ५३ For Private & Personal Use Only wwww.jainelibrary.org

Loading...

Page Navigation
1 ... 239 240 241 242