Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 237
________________ नमुच्यते तद्विषय इत्यर्थः, शेषं सुगमम् । 'खोलपुरिसो सुणेज्जा सो वा इयरो वा'इत्यादि ( ८२१-१८), खोलोराजपुरुषविशेषस्तेन तस्मिन्नभ्याख्यानवचसि श्रुते यदि तत्सत्यं तदा अभ्याख्येयपुरुषो राज्ञः सकाशान्मार्यते दण्ड्यते वा अथासत्यं तत् तदा स एवासदभ्याख्याता तथा कृत्वा निगृह्यते, कस्मात्पुनः सोऽभ्याख्येयो मार्यते दण्ड्यते वेत्याह'एवंगुणो एस'त्ति (वृ० एवं गुणो वेसित्ति ८२१-१९), चौरत्वादिगुणोपेतोऽसावितिकृत्वा इत्यावश्यकचूर्णिपाठो, १ वृत्तिपुस्तकेषु त्वन्यथापि क्वचिदृश्यते नचासौ सम्यगवबुध्यत इत्युपेक्षितः, दोषान्तरमाह-"भएणे'त्यादि, एतदुक्तं भवति-तस्मिन्नभ्याख्यानवचसि राजपुरुषादिना श्रुते सति सोऽभ्याख्येयो भयादात्मानमभ्याख्यातारं वा विराधयेत् मार येदिति । मृषोपदेशकथानकं किञ्चित्स्पष्टीक्रियते-कश्चित् परिव्राजकः कंचिद्दरिद्रपुरुषं भणति-किमिति क्लिश्यसि ? त्वाम1र्थपतिं विधापयामि, कथमित्युपायमाह-अमुकस्य वणिजः सत्कहद्देऽहमने गत्वोपवेक्ष्यामि त्वयाऽपि पृष्ठतस्तत्रागन्तव्यं, दाव्याकुलश्चासौ वणिग् भणनीयो-ममोच्छिन्नं सहस्रमेकं द्रम्माणां प्रयच्छ, स च व्याकुलतया न तव प्रत्युत्तरं दास्यति, | ततश्च द्वितीयदिने पुनर्गत्वा सामान्येन याचनीयं मम देहि २, स च व्याकुलचित्ततया प्रत्युत्तरयिष्यति-प्रतीक्षस्व प्रयच्छामि, प्रतिदिनं चैतत्कर्त्तव्यं, ततो बहुजनेनैतस्मिन् श्रुतेऽन्यस्मिन्दिने भणनीयं-प्रयच्छ यत् मया तव स्थपनिकायां | द्रम्माणां सहस्रमेकमर्पित, यदा न मन्यते तदा राजकुले नेयोऽहं च साक्षित्वेनोद्देष्टव्यो येन दापयामि, तेन तथैव कृत-IKI मिति भावार्थः ॥ 'ओहारगं हिंसाइएसु न देइ'त्ति (ववहारगहिंसादि ण देति वृ०-८२३-१) हिंसादिषु कर्त्तव्येषु तन्निवहार्थ द्रव्यं न ददातीत्यर्थः, 'हिंसाई न देह'त्ति क्वचित्पाठः-तत्र हिंस्राणि-खड्गकुन्तादीनि प्रहरणानि आदिशब्दात्तेषां Jain Education For Privale & Personal use only KIw.jainelibrary.org

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242