Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 219
________________ णामस्तथोच्यते ?, नेत्याह-येन धनधान्यकलत्रादिगार्ध्यपरिणामेनास्य जन्तोरन्ते-आयत्यां नारकादिभवदुःखलक्षणं भयमु-1 त्पद्यते स तथाभूतः परिणामोऽभिष्वङ्गो न सर्वोऽपीति भावार्थः । योगसङ्ग्रहाः समाप्ताः ॥ साम्प्रतमहदाशातनादिगता गाथा वित्रियन्ते, 'तत्थ-नत्थी अरहंतत्तीगाहा (७२८-७) व्याख्या-प्रत्यक्षादिप्रमाणाग्राह्यत्वान्न सन्ति केचनाहन्तः, सत्त्वे वा गृहवासेऽपि यदि ज्ञानत्रयसमन्वितोऽर्हन्नभ्युपगम्यते तहिं जानानोऽपि किमिति विपाकदारुणान् भोगान् असौर भुङ्क्ते, समुत्पन्नकेवलज्ञानश्च किमिति वीतरागोऽपि सन् प्राभृतिका-सुररचितसमवसरणमहाप्रातिहार्यादिपूजालक्षणामुपजीवति, तस्मान्नायं क्षोदक्षम इति ब्रुवत आशातना भवति, एवं वदतश्चास्येदमुत्तरं वाच्य, यदाह-भोग'गाहा(७२८-८), भोगफलाः पूर्वजन्मनिर्वतिता याः साताद्याः पुण्यप्रकृतयस्तासामुदयप्राबल्याद्भुङ्क्ते भोगानिति भोगभुक्तिपक्षे उत्तरमेवं, प्राभृ-12 ४ तिकायामप्येतद्-वक्ष्यमाणमुत्तरं शृणु, तद्यथा-'नाणाइअणवरोहग'गाहा (७२८-९), ज्ञानदर्शनचारित्राणामनुपरो-18 धकः--अनुपघातको योऽयमघातिसुखपादपः-सातवेदनीयं उपलक्षणत्वाद्यशःकीर्त्यादिकर्म च तद्वेदनार्थ सुरसार्थविहितपूजामहन्ननुभवतीति प्रकरणाद् गम्यते, तीर्थकृतो ह्यघातिकर्मवेदने नोपायान्तरमस्ति, न च तथा वेदयतः कश्चित् ज्ञानाधुपरोधोऽस्ति, तीर्थकरनामकर्मोदयाच्चामरादिपूजामयमनुभवति, तीर्थकरनामकर्मणो हि सकलत्रैलोक्यपूजनीयतैव विपाको नापर इति, तथा वीतरागत्वाच्च सुरपूजामनुभवतोऽपि न तस्य तत्राभिष्वङ्गः क्षीणनिःशेषाभिष्वङ्गकारणमोहपटलत्वादिति सर्व समञ्जसमिति गाथार्थः। 'सिद्धाणं आसायण'मित्यादि (७२८-१०), मूढस्य-अज्ञस्य वक्ष्यमाणं वदतः सिद्धविषयाशातना भवति, तद्यथा-न सन्ति सिद्धाः प्रत्यक्षाद्यग्राह्यत्वात् , सत्त्वे वा पाषाणवन्निश्चेष्टा एव किं JainEducation M onal For Private Personal Use Only R ujainelibrary.org R

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242