Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
देवैतदिति मन्तव्यं अपरस्यापि चतुस्त्रिंशदादेरनन्तपर्यवसानस्य प्रतिक्रमणस्थानस्यार्थतोऽत्र सूचितत्वात् , तदपि चासंमो-4 हार्थमोघतः-सामान्येनाहं प्रवक्ष्यामीतिगाथार्थः, यथाप्रतिज्ञातमाह-'तेत्तीसाएगाहा (७५९-२२), त्रयस्त्रिंशदाशातनास्थानेभ्य उपरि चतुस्त्रिंशद्वचना(बुद्धा)तिशेषाः-चतुस्त्रिंशत्तीर्थकरातिशयाः प्रतिक्रमणीयत्वेन वक्तव्याः ते च प्रतीता एव, तथा पञ्चत्रिंशद्वचनातिशया वक्तव्याः, तेषां च स्वरूपं न विवियते विशिष्टसम्प्रदायाभावात् , तथा षटुिंशदुत्तराध्य. यनानि वाच्यानीतिगाथार्थः । इदानीं शतस्थानकं यावद्गाथार्द्धनातिदेशमाह-एवं यथा समवाये तथैव सप्तत्रिंशदादिस्थानानि तावद्वक्तव्यानि यावच्छतस्थानके "सइभिसयानक्खत्ते सयतारे पन्नत्ते” इति । साम्प्रतमुत्तरार्द्धन शतस्थानकादुपर्यपि प्रतिक्रमणस्थानानि पश्यन्नतिबहुत्वेन तद्भणने सामर्थ्यमपश्यन्नतिदेशमाह-इति सङ्ख्येयैरसङ्ख्येयैरनन्तैश्च परमाणुस्कन्धजी-15 वराश्यादिभिः स्थानैः कृत्वा यः संयमस्यासंयमस्य वा सम्बन्धित्वेन प्रतिषिद्धाद्याचरणरूपोऽतिचारस्तस्य भवति प्रतिक्रमणमित्युत्तरगाथायां संटङ्कः । तेत्तीसेहिं तु ताणि पुणो'त्ति (७६०-२) तानि पुनः संख्येयासंख्येयानन्तानि प्रतिक्रमणस्थानानि त्रयस्त्रिंशदाशातनारूपेष्वन्तर्गतानि सर्वाण्यपि नियमाद्भवन्तीति उत्तरगाथायां सम्बन्धः, पक्षान्तरमाहसबो वड्यारगणो'इत्यादि (७६०-३), इदमुक्तं भवति-किश्चास्माकं मतेन त्रयस्त्रिंशदाशातनापदेष्वपान्तरालिकान्त
र्भावेन तान्यपि हि आशातनापदान्यपरोऽपि च द्विकसंयोगादिको य एष “पडिकमामि दोहि बंधणेहिं"इत्यादिपदोपात्तः ४ संख्येयासंख्येयानन्तपदैश्चानन्तरनिर्दिष्टः स सर्वोऽप्येकविधस्यासंयमस्य 'पडिक्कमामि एगविहे असंयमें' इत्यादिपदोपात्तस्य
भवति पर्यवसमूहो-भेदसमूहस्तत्प्रपञ्चः सर्वोऽप्येष भवतीत्यर्थः, इत्यनन्तरगाथायां मीलनीयं, उत्तरग्रन्थस्य सम्बन्धमाह
RECORNSRC-C4%--*
Join Educati
onal
For Private & Personal Use Only
U
w.dainelibrary.org

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242