Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
क्षामणानि
आव० हारि० टीप्पणं
॥११शा
वाक्यशेषः, "तस्स मिच्छामि दुक्कड"मिति सम्बन्धः, तथा भक्ते-भोजनविषये पाने-पानविषये विनये-अभ्युत्थानादिरूपे वैयावृत्त्ये-औषधपथ्यदानादिनोपष्टम्भकरणरूपे आलापे-सकृजल्पे संलापे-मिथः कथायां उच्चासने समासने चेति व्यक्त अन्तरभाषायां-आराध्यस्य भाषमाणस्य अन्तरालभाषणरूपायां उपरिभाषायां-आराध्यभाषणानन्तरमेव तदधिकभाषणरूपायां, इह समुच्चयार्थः चशब्दो लुप्तो द्रष्टव्यः, यत्किञ्चित्समस्तं सामान्यतो वा “मज्झ"त्ति मम विनयपरिहीणं-शिक्षा|वियुतत्वमनौचित्यमित्यर्थः सञ्जातमितिशेषः, विनयपरिहीणस्यैव सामस्त्यं सामान्यरूपतां वा दर्शयन्नाह-सूक्ष्मं वा बादरं वा, वाशब्दौ द्वयोरपि मिथ्यादुष्कृतविषयतातुल्यतोद्भावनाथों 'तुम्मे जाणहत्ति यूयं जानीथ यत्किञ्चिदितिवर्त्तते “अहं न याणामि"त्ति अहं पुनर्न जानामि मूढत्वाद् यत् किञ्चिदिति वर्त्तत एव 'तस्सत्ति षष्ठीसप्तम्योरभेदादस्मिन्अप्रीतिकविषये विनयपरिहीणविषये च 'मिच्छामि दुक्कडं'ति-मिथ्या मे दुष्कृतमिति स्वदुश्चरित्रानुतापसूचकं स्वदोषप्रतिपत्तिसूचकं वा प्रतिक्रमणमिति परिभाषितं वाक्यं प्रयच्छामीतिशेषः, अथवा 'तस्स'त्ति विभक्तिपरिणामात्तदप्रीतिक विनयपरिहीणं च मिथ्या-मोक्षसाधनविपर्ययभूतं वर्त्तते मे-मम तथा दुष्कृतं-पापमिति स्वदोषप्रतिपत्तिरूपमपराधक्षमणमिति । अत्राऽऽचार्यो ब्रूते-'अहमवि खामेमि तुम्भेत्ति (७९२-९), प्रतीतार्थमेवेदमिति । इह यथा राजानं पुष्पमाणवा-मङ्गलपाठका अतिक्रान्ते माङ्गल्यकार्ये बहु मन्यन्ते यदुत अखण्डितबलस्य ते सुष्टु कालो गतोऽन्योऽप्येवमेवोपस्थितः। एवं पाक्षिकं विनयोपचारं द्वितीयक्षामणकसूत्रेण साधवः आचार्यस्य कुर्वन्ति, तच्चेदं-'इच्छामि खमासमणो! पिअं च मे जंभे हट्ठाणं तुट्ठाणं अप्पायंकाणं अभग्गजोगाणं सुसीलाणं सुब्बयाणं सायरियउवज्झायाणं
॥११॥
Jain Education
For Private & Personal Use Only
Elainelibrary.org

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242