Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 227
________________ एतदुक्तं भवति-धर्माधर्माकाशानां बहुप्रदेशत्वस्यागमेऽनेकधा प्रतिपादितत्वेन निचयरूपताया अविरोधात्कायशब्दप्रवृ. त्तिरदुष्टैच, अद्धासमयस्य तु वर्तमानसमयमात्ररूपत्वान्निचयत्वायोगाद् आगमे च क्वचिदपि अनुक्तत्वान्न कायशब्दप्रवृत्तिरिति पश्चैवास्तिकाया न हीना नाप्यधिका इति, गन्धहस्तिना तु कयाचिद्विवक्षया कालस्याप्यस्तिकायता उक्ता, सा विह न विवक्षितेति ॥ इह पाक्षिकक्षामणकसूत्राणि वृत्तिकृता न सामस्त्येन व्याख्यातान्यतः संक्षेपतः किश्चिव्याख्यायन्ते-तत्र च वाचनावैचित्र्यदर्शनात् प्रत्यक्षरं सूत्रमभिलिख्यते-'इच्छामि खमासमणो ! अभुट्टिओमि अभितरपक्खिों खामेड, पन्नरसण्हं दिवसाणं पन्नरसण्हं राईणं किंचि अपत्तियं परपत्तियं भत्ते पाणे विणए वेयावच्चे आलावे संलावे उच्चासणे समासणे अंतरभासाए उवरिभासाए जंकिंचि मज्झ विणयपरिहीणं सुहम वा बायरं वा तुम्भे जाणह अहं न याणामि तस्स मिच्छामि दुकडंति (७९२), व्याख्या-'इच्छामि'त्ति अभिलषामि क्षमयितुमितियोगः 'खभासमणो'त्ति हे क्षमाश्रमण !, ओकारान्तत्वं च प्राकृतत्वात् , न केवलमिच्छामि किन्तु 'अभु. टिओमित्ति-अभ्युत्थितोऽस्मि प्रारब्धोऽस्म्यहं, अनेनाभिलषितमात्रव्यपोहेन क्षमणक्रियायाः प्रारम्भमाह, 'अभितर-5 पक्खिअति पक्षाभ्यन्तरसम्भवमतिचारमिति गम्यते, क्षमयितुं-मर्षयितुमितिप्रस्तावना, क्षमणमेवाह-"पन्नरसण्हं" पञ्चदशानां “दिवसाणं"ति दिनानां 'पन्नरसण्ह' पञ्चदशानां 'राईगंति रात्रीणां अभ्यन्तर इति शेषः, "जकिंचि"त्ति | यत्किञ्चित्सामान्यतो निरवशेष वा "अपत्ति"ति प्राकृतत्वादप्रीतिक-अप्रीतिकमात्रं “परपत्तिअं" प्रकृष्टं अप्रीतिकं परप्रत्ययं वा-परहेतुकं उपलक्षणत्वादस्य आत्मप्रत्ययं चेति द्रष्टव्यं, भवद्विषये मम जातं भवतां वा मया जनितमिति Jain Educat i onal For Privale & Personal use only Miww.jainelibrary.org

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242