Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
आव ०
हारि०
टीप्पणं
॥१०७॥
Jain Education
तरिति, ननु पाषाणकल्पत्वमसिद्धं केवलज्ञानोपयोगयुक्तत्वात्तेषामित्याह- सति वा केवलोपयोगे विशिष्टेतरवस्तूपयोगे ध्रुवौ रागद्वेषौ प्रसज्येते, तथा सिद्धानां दर्शनज्ञानयोरन्यान्यकाले उपयोगोऽभ्युपगम्यते, एवं चामीषामसर्वज्ञता प्राप्नोति, दर्शनकाले विशेषाणामदर्शनात् ज्ञानकाले तु सामान्यस्यादर्शनाद् एवं चैकस्मिन्नपि क्षणे न सर्वज्ञतेति, किंच- ज्ञानकाले दर्शनं न भवति तत्काले चेतरन्न भवतीत्यत्र कारणं वाच्यं तच्च न ज्ञानदर्शनावरणकर्मणी, तयोर्न्निर्मूलकाषंकषितत्वात् ततः सामर्थ्यात् ज्ञानेन दर्शनमाब्रियते दर्शनेन तु ज्ञानमित्यन्योऽन्यावरणता समापद्यते, अथ परस्परावरणताऽपि नेष्यते तर्हि तन्निषेधककारणाभावाद्युगपदेव ज्ञानदर्शने प्रवर्त्तेयातां, तथा च सति तयोरेकत्वं स्यादिति सार्द्धगाथाद्वयोक्त पूर्वपक्षार्थः 'भन्नइ नवि एएसि' मित्यादिना ( ७२८ - १२ ), प्रतिविधीयते एतेषां - सिद्धानामेकोऽप्युक्तदोषो न संभवति, तथाहियदुक्तं न सन्ति सिद्धास्तत्राह - सन्ति नियमात्सिद्धाः, सिद्ध इतिशब्दादेवेदं गम्यते, भावना चात्र प्रयोगतोऽवसेया, स चायंसन्ति सिद्धाः व्युत्पत्तिमत्शुद्धशब्दवाच्यत्वाद् घटादिवदिति निश्चेष्टताप्रेरणायां तु सिद्धसाध्यतैवेत्याह- करणवीर्यमाश्रित्य निश्चेष्टा अपि भवन्त्यमी, काययोगजनितवीर्यस्यात्यन्तक्षयादितिभावः, यदुक्तं- 'रागदोसधुवत्त'त्ति, तत्राह - विशिष्टेतर| वस्तुदर्शनेऽपि न तेषां रागद्वेषौ भवतः, तत्कारणरूपक्रोधादिकषायपटलस्य निरवशेषक्षयादिति यदपि कालभेदेनोपयोगप्रवृत्तिमुद्भाव्य दूषणमुक्तं तत्राप्याह-योऽयं युगपदर्शनज्ञानोपयोगः सिद्धानां न भवति स तावज्जीवस्वाभाव्यादेवेति, यत्पुनरयुगपदुपयोगेऽसर्वज्ञता प्रेरिता तत्राह - 'नयमयाओ यत्ति ( ७२८-१४ ), अयुगपदुपयोगप्रवृत्तावपि नियमतः सर्वज्ञताऽस्यानिवारितैवेति अध्याहारः, इदमत्र हृदयं - यत्र क्षणे असौ सामान्ये उपयुक्तस्तस्मिन्नपि क्षणे विशेषपरिज्ञानलब्धिरस्य
For Private & Personal Use Only
प्रतिक्रमणे आशातनाः
॥१०७॥
fainelibrary.org

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242