Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
आव० हारि० टीप्पणं
॥१०८॥
दर्शनस्य च प्रज्ञापनायां पश्यत्ता प्रतिपादिता, तां चाश्रित्य ज्ञानोपयोगकाले दर्शनमस्ति दर्शनोपयोगेऽपि ज्ञानमपि, पश्य- प्रतिक्रमणे त्तासामान्यस्योभयत्रापि भावादिति नासर्वज्ञतेत्युत्तरपक्षगतसार्द्धगाथापञ्चकार्थः । सदेवमनुजासुरलोकाशातनाप्रतिविधाने आशातनाः 'सत्तसु परिमिए'त्यादि (७३०-८) गाथाद्वयव्याख्या-यत्तावदुक्तं-'सप्तद्वीपसमुद्रमात्रो लोकः, तदसङ्गतं, एतावन्मात्रे लोके सत्त्वानां परिमितत्वात् तेषामपि चानवरतं सिद्धिगमनात्कालस्य चानन्तत्वान्निगोदजीवानां च परैर्वार्तयाऽप्यश्रुत
त्वात्सर्वशून्यतापत्तिः, सोपस्कारत्वात्प्रजापतिना कृतो लोक इति अभ्युपगमे सोऽपि प्रजापतिः केन कृत इति वाच्यं, अप-13 हरप्रजापतिनेति चेत् सोऽपि केनेत्यनवस्था, 'प्रकृतिपुरुषसंयोगाल्लोको भवतीति यदुक्तं तत्राह-प्रकृत्याः प्रवृत्तिरेव कथं घटते ?,
यद्-यस्मात्कारणात् अचेतना सती पुरुषार्थप्रसाधनाय किल प्रवर्ततेऽसावित्यभ्युपगम्यते, नचाचेतनस्य स्वतन्त्रस्योपलशकलस्येव प्रवृत्तियुज्यते, अचेतनामप्येतां पुरुषः प्रवर्त्तयिष्यतीति चेदत्राह-'तीसे चिअ अपवत्ती परोत्ति (७३०-९), तस्याश्च-प्रकृतेः 'अपवत्ति'त्ति अप्रवर्तकः परः पुरुष इत्यर्थः, एतदुक्तं भवति-न ह्यचेतनायास्तस्याः पुरुषः प्रवर्तकत्वेन | भवद्भिरभ्युपगम्यते तस्य सकर्तृत्वप्रसङ्गात् , तस्मात्प्रकृतेः कथञ्चिदपि लोकनिर्वर्त्तने प्रवृत्त्ययोगात्प्रकृतिपुरुषसंयोगादपि न तत्सिद्धिरिति सर्वमेव विरुद्धं परैः प्रलपितमिति गाथाद्वयार्थः । 'उभयोरपि दृष्टोऽन्त'इति (७३०-१८) निश्चय इत्यर्थः । 'तामालम्ब्य प्रशस्तमनसः कर्मक्षयदर्शनादिति (७३१-३ ) यो हि किल श्रुतदेवताधिष्ठितं मन्त्रं प्रशस्तमनसा ॥१०८॥ ध्यायति तस्य काव्यादिशक्तयो विशिष्टश्रुतलाभश्च दृश्यते, ततश्च कर्मक्षयः सुप्रतीत एवेति ॥ एतानि च चतुर्दश सूत्राणि श्रुतक्रियाकालगोचरत्वान्न पौनरुक्त्यभाञ्जीति (७३१-९), अयमत्र भावार्थः-इह यद्यपि केवलिपन्नत्तस्स
Jain Education
a
For Privale & Personal use only
N
w
.jainelibrary.org

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242