Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
इत्याह-"समये"त्यादि जघन्यान्तरकालस्तृतीयसमये दिवि संघातयतो विज्ञेयः, कस्य ?-समयमेकं विकुळ मृतस्य, यो ह्यौ-IP दारिकशरीरी समयमेकं वैक्रियसंघातं कृत्वा मृतः सन् समयमेकं विग्रहं च विधाय तृतीयसमये दिवं गत्वा संघातयति तत्सम्बन्धिनः सङ्घातद्वयस्य विग्रहसमयोऽन्तरे प्राप्यत इति भावना, अथवेदमेवान्तरं प्रकारान्तरेणाह-तृतीये वा समये मृतस्य तृतीयसमये सङ्घातयत इति सम्बध्यते, एतदुक्तं भवति-यः कश्चिदिहौदारिकशरीरी वैक्रियलब्धिमान् वैक्रियशरीरमारभ्य प्रथमसमये सङ्घातं विधत्ते द्वितीयसमये च सङ्घातपरिशाटौ तृतीयसमये बियते तस्मिन्नेव च तृतीयसमये निर्विग्रहेण सुरलोकमवाप्य वैक्रियसङ्घातं करोति तस्य जन्तोः सम्बन्धिनः सङ्घातद्वयस्यान्तरे सङ्घातपरिशाटसमयः प्राप्यत इति गाथार्थः । “ततिए व मयस्स ततियंमि"त्ति एतद्गाथादलं किश्चिदुरवबोधमिति सम्प्रधार्य भावनामात्रमाह वृत्तिकारःअविग्रहेण सङ्घातयत इत्यादि भावितमेवेति, साम्प्रतमुभयस्य परिशाटस्य चान्तरकालभावनामाह-'उभयस्सेत्यादि गाथा (४६१-१७), व्याख्या-उभयस्य-वैक्रियसम्बन्धिनः संघाटपरिशाटलक्षणस्य समय एको जघन्यमन्तरमित्यध्याहारः, कस्य जन्तोरिदमवाप्यते ? इत्याह-चिरमन्तर्मुहूर्त्तमानं कालं विकुळ वैक्रियवपुषि स्थित्वा मृतस्य देवेष्वविग्रहगतस्य जन्तोः सङ्घातसमयोऽन्तरे प्राप्यते, अयमत्र भावार्थः-य औदारिकशरीरी वैक्रियलब्धिमानारचितवैक्रियशरीरः परिपूर्ण मनुष्यवैक्रियशरीरस्थितिकालं यावत्सङ्घातपरिसाटौ विधाय घियतेऽविग्रहेण च सुरालये समुत्पद्य प्रथमसमये वैक्रि- | यसङ्घातं करोति द्वितीयादिसमयेषु तु संघातपरिशाटौ तत्सम्बन्धिन उभयस्य चान्तरे स एवानन्तरोक्तः संघातसमयो भवजातीति, ननु यद्येवं "चिरवेउवियमयस्से"त्यत्र चिरग्रहणमपार्थकम् , इह हि मनुष्यादिषु यश्चिरं स्तोकं वा कालं वैक्रिय
SCIENCACCOACECAMORORE
तर्मुहर्तमानं कालदपरिशाटलक्षणस्य समय भावनामाह-'
Jain Education
Alona
For Privale & Personal use only
W
w.jainelibrary.org

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242