Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 209
________________ चरणद्वारमाह-अचरणदेशो नाम यत्र चारित्रं पालयितुं न शक्यते ततो देशाद्गणे निर्गच्छति मार्गग्रामादिषु स्वजनादिबलाद् भक्तपानादिभिस्तस्करादिरक्षणतश्चोपकरिष्यति, अवशिष्टं द्वारद्वयमाह-अवमाशिवयोर्वा प्रतितपिष्यतीति, अत्र चानानुपूर्व्या अपि वस्तुत्वख्यापनार्थ इत्थं द्वारव्याख्या, उत्तमार्थद्वारं तु सुगमत्वान्न व्याख्यातमिति गाथार्थः। 'अजा-६ णओ न याणे पन्नवणा कीरई त्यादिगाथा, एतदुक्तं भवति-ज्ञायकेऽज्ञायके च नपुंसके प्रव्रज्याग्रहणाय समुपस्थिते न भवतां प्रव्रज्या ग्रहीतुं युज्यते विराधनाप्रसङ्गादित्यादिना प्रज्ञापना क्रियते, यद्येतद्वच इच्छतस्तदा दीक्षा न दीयत एव अनिच्छतस्तद्वचः प्रव्रज्यामेवाभिलषतः आत्मनश्च किञ्चिदशिवाद्यनन्तरोपन्यस्तं कारणमुपस्थितं वर्तते तदा वक्ष्यमाणविधिना दीक्षा प्रदीयते, सिद्धे च कार्ये वक्ष्यमाणप्रकारेणैव तस्य परित्यागः क्रियत इति एतदेवाह-'अणिच्छ कजे उ एस विहि'त्ति इति गाथार्थः। 'अन्नाए पडिसेहो' इत्यादिनाऽज्ञातपक्षो व्याख्यातः, साम्प्रतं ज्ञातपक्षे विधिमाह-'नायम्मि अन्नदेसे'गाहाव्याख्या-यद्यमीभिरसौ दीक्षित इत्येवं तत्र देशे लोकस्य ज्ञातं भवति तदाऽन्यस्मिन्देशे गत्वाऽसौ परित्यज्यते, अन्ये तु व्याचक्षते-जातेऽपि नान्यत्र देशे गम्यते किन्तु राज्ञा पृष्टैः साधुभिरिदं वक्तव्यं-राजन् ! यदि युष्मदीये श्रीगृहे भाण्डागारे कश्चिञ्चुक्कति तदा तस्य भवन्तः किं कुर्वते ?, राजा प्राह-निष्काशयामि दण्डेन दण्डयामि, तदाऽस्माकमप्यसौ ज्ञानादिरत्नत्रयलक्षणं श्रीगृहं विनाशयतीति वयमेनं परित्यजाम इत्येवंलक्षणं श्रीगृहोदाहरणं कथयित्वा परित्यज्यते, अथ बहुस्वजनत्वात्तत्रान्यत्र वा देशे न शक्यते परित्यक्तुं तदा वक्ष्यमाणा यतनेति गाथार्थः । नपुंसकपरिस्थापनिकाऽवसिता । जड्डुविधौ ‘गच्छे पुण सो अणुन्नाओं' इत्युक्तं तत्किमसौ कारणतोऽनुज्ञातः कारणाभावेऽपि वेत्याशङ्याह XRECRUSSORRIERCAR R OCA% Jain Education ( ional For Private & Personal Use Only w.jainelibrary.org

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242