________________
चरणद्वारमाह-अचरणदेशो नाम यत्र चारित्रं पालयितुं न शक्यते ततो देशाद्गणे निर्गच्छति मार्गग्रामादिषु स्वजनादिबलाद् भक्तपानादिभिस्तस्करादिरक्षणतश्चोपकरिष्यति, अवशिष्टं द्वारद्वयमाह-अवमाशिवयोर्वा प्रतितपिष्यतीति, अत्र चानानुपूर्व्या अपि वस्तुत्वख्यापनार्थ इत्थं द्वारव्याख्या, उत्तमार्थद्वारं तु सुगमत्वान्न व्याख्यातमिति गाथार्थः। 'अजा-६ णओ न याणे पन्नवणा कीरई त्यादिगाथा, एतदुक्तं भवति-ज्ञायकेऽज्ञायके च नपुंसके प्रव्रज्याग्रहणाय समुपस्थिते न भवतां प्रव्रज्या ग्रहीतुं युज्यते विराधनाप्रसङ्गादित्यादिना प्रज्ञापना क्रियते, यद्येतद्वच इच्छतस्तदा दीक्षा न दीयत एव अनिच्छतस्तद्वचः प्रव्रज्यामेवाभिलषतः आत्मनश्च किञ्चिदशिवाद्यनन्तरोपन्यस्तं कारणमुपस्थितं वर्तते तदा वक्ष्यमाणविधिना दीक्षा प्रदीयते, सिद्धे च कार्ये वक्ष्यमाणप्रकारेणैव तस्य परित्यागः क्रियत इति एतदेवाह-'अणिच्छ कजे उ एस विहि'त्ति इति गाथार्थः। 'अन्नाए पडिसेहो' इत्यादिनाऽज्ञातपक्षो व्याख्यातः, साम्प्रतं ज्ञातपक्षे विधिमाह-'नायम्मि अन्नदेसे'गाहाव्याख्या-यद्यमीभिरसौ दीक्षित इत्येवं तत्र देशे लोकस्य ज्ञातं भवति तदाऽन्यस्मिन्देशे गत्वाऽसौ परित्यज्यते, अन्ये तु व्याचक्षते-जातेऽपि नान्यत्र देशे गम्यते किन्तु राज्ञा पृष्टैः साधुभिरिदं वक्तव्यं-राजन् ! यदि युष्मदीये श्रीगृहे भाण्डागारे कश्चिञ्चुक्कति तदा तस्य भवन्तः किं कुर्वते ?, राजा प्राह-निष्काशयामि दण्डेन दण्डयामि, तदाऽस्माकमप्यसौ ज्ञानादिरत्नत्रयलक्षणं श्रीगृहं विनाशयतीति वयमेनं परित्यजाम इत्येवंलक्षणं श्रीगृहोदाहरणं कथयित्वा परित्यज्यते, अथ बहुस्वजनत्वात्तत्रान्यत्र वा देशे न शक्यते परित्यक्तुं तदा वक्ष्यमाणा यतनेति गाथार्थः । नपुंसकपरिस्थापनिकाऽवसिता । जड्डुविधौ ‘गच्छे पुण सो अणुन्नाओं' इत्युक्तं तत्किमसौ कारणतोऽनुज्ञातः कारणाभावेऽपि वेत्याशङ्याह
XRECRUSSORRIERCAR
R
OCA%
Jain Education
(
ional
For Private & Personal Use Only
w.jainelibrary.org