SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ आव० हारिक टीप्पणं ॥१०२॥ RCMCAOROSCALCREAL वृत्तिकारः-कारणंतरेण'त्ति ( ६२८-२२), कारणान्तरेण-ज्ञानाद्यालम्बनेनानुज्ञातो न निष्कारण इत्यर्थः, ननु शरीर पारिष्ठाजड्डस्य प्रव्राजने को दोष ? इत्याह-'उड्डस्सासो'गाहा-( ६२९-१), इयं च सूचामात्रत्वात्सूत्रस्य क्वचित्सोपस्कारत पनिका याऽपि व्याख्यायते-स तावदूोच्छासो भवति निरन्तरं श्वसितीत्यर्थः, तथा भक्तपानाद्यानयने मार्गगमनादौ चापराक्रमः-असमर्थो भवति, ग्लानत्वे च सत्युद्वर्तनादिक्रियां कर्तुमशक्तो भवति, उत्थाने चक्रमणादिक्रियासु वा लाघवं न भवति, प्रदीपनकादावग्नेश्च न शीघ्रं पलायितुं शक्नोति, सर्पादिदर्शने वा नापसरणक्षमो भवति, अदृष्टावष्टम्भत्वेन च नद्यादिजलेन प्लाव्यते, किञ्च अतीव गाढग्लानत्वे जड्डस्य ग्लानिरुत्पद्यते असमाधिमरणं च स्यादिति गाथार्थः । किंच'सेएण कक्खमाइगाहा ( ६२९-२), कक्षोर्वादिप्रदेशाः स्वेदेन तस्य कोथमानुवन्ति तद्धावने च क्षित्यादिनिश्रिताः प्राणिनः प्लाव्यन्ते, किञ्च 'न भवति गलश्चौर' इत्यतो ज्ञायते ओदनमुण्डा एवैते नापरं किञ्चित्तत्त्वं विदन्तीत्येवंरूपो निन्दितमुण्डादिप्रवादो भवतीत्यादयो जड्डप्रव्राजने दोषा इति गाथार्थः । उक्तं भाषाशरीरजड्डयोः स्वरूपं, साम्प्रतमीर्यासमित्यादीनां करणं-विधानं तत्र जड्डः करणजड्डस्तस्य स्वरूपमाह-ईरियासमिए'गाहा ( ६२९-३) गतार्था, अस्य किं विधेयमित्याह-एसोऽवी'त्यादि गाथा ( ६२९-४), सुगमा, नवरं 'जो पुण करणे जड्डो'इत्यादिना तस्य दीक्षितस्य सतो यद्विधेयं तद्वक्ष्यतीति । मम्मणमूकस्य स्वरूपं प्रागेवोक्तं, अस्य च मेधाविनो दीक्षा प्रागेवानुज्ञाता, अथ मेधारहितोऽपि M॥१२॥ ग्लानादिकारणतो यदा दीक्षितो भवति तदा यद्विधेयं तदाह-"मोत्तुं गिलाणकजंगाहा (६२९-६), व्याख्यानं त्वस्या वृत्तिकृतैव कृतमिति न प्रतन्यते, जड्डपरिस्थापनिका समाप्ता ॥ 'पुवं गहणं च णंतककट्ठस्स'इति अत्र (६३१-१५) SANSLACK दानां करणं-विधानं तत्रादगाथा ( ६२९-४), सुगमा, अस्य च मेधाविनी दी SO-50- NCCCC Jain Education I tional For Privale & Personal use only A Mw.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy