SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ CREASEASEENA काष्ठं नाम येन रजन्यादावकस्मात्कालगतः साधुर्वोढव्यस्तदुच्यते, तच्च ग्रहणार्थ पूर्वमेवालोक्यते, क पुनरित्याह-'तत्थsनत्थ वे'ति ( ६३१-१६), तत्रेति-वसतावेव किञ्चिदृढवहनकाष्ठं निरीक्ष्यते तदभावेऽन्यत्रापि-शय्यातरगृहादौ निरीक्ष्यते इति, अस्यैव वहनकाष्ठस्य सप्रपञ्चं विधिमाह-'तत्थ कट्ठस्स गहणे'इत्यादि ( ६३१-१६), आउज्जोअणादिअहिगरणदोस'त्ति ( ६३२-२), अरघट्टादियोजनादयो दोषा इत्यर्थः। 'अंगुट्ठाइसु बज्झइ'त्ति (६३३-१२) चरणाअष्ठद्वयं मीलयित्वा बध्यते, एवं कराङ्गष्ठद्वयमपीति । 'द्वे च सा क्षेत्रे नक्षत्रे'इत्यादि ( ६३४-११) इह वक्ष्यमाणान्युत्तरादीनि नक्षत्राणि पञ्चचत्वारिंशन्मुहूर्तभोक्तृणि सार्द्धक्षेत्राण्युच्यन्ते सार्द्धदिनभोक्तृणीतियावद् एवमश्विन्यादीन्यप्येकदिनभोक्तृणि समक्षेत्राण्युच्यन्ते, शतभिषगादीनि त्वर्द्धदिनभोक्तृण्यपार्द्धभोगीण्याख्यायन्ते, तेषां च किल चिरन्तनज्योतिष्कग्रन्थेष्वित्थमेव भुक्तिरासीन्नतु यथा साम्प्रतं सर्वाण्यप्येकदिनभोगीनीतिभावः । 'कायबोत्थ ककारों' इत्यादि (६३५-२०), अस्य स्थापना क (सामाचार्या तु विपरीतः कः कार्यः-क स्थापना ) "असमत्थो जइ एक्कासणयं एवं सबितियंपि'त्ति (६३७-१२), एतदुक्तं भवति-योकासनकमपि कर्तुमसमर्थो भवति तदा “सबिइअंपि”त्ति सद्वितीयमपि भोजनं कुरुते यासनकमपि करोतीतियावत् । 'पडिस्सए मुहत्तगं संचिक्खाविजइ जाव उवउत्तो'त्ति (६३८-१२), अशिवमृतत्वादवज्ञाहेतोः किलास्य समीपे मुखवस्त्रिका रजोहरणं च न मोच्यते अतस्त्रिदिवगमने उपयुक्तः सन्प्रतिश्रयस्थितं स्ववपुर्दृष्ट्या संयतोऽहमासीदिति जानीते, पितवनभूमौ तु चिह्नाभावान्न जानीयादतस्तत्रैव क्षणमात्र ध्रियते | इति भावार्थः । 'जेण संथारएण नीणितो विकरणो कीरइत्ति (६३८-१३), देवतानयनादिदोषप्रसङ्गात्खण्डीकृत्य आ०१८ Jain Educati -60 o nal For Privale & Personal use only Vlaw.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy