SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ आव० हारि० टीप्पणं ॥१०१॥ Jain Education झगित्येवोद्धृत्य छारेणावष्टभ्यते, कोत्थलगारिका नाम भ्रमरिका, 'संधारण मंकुणाणं' ति ( ६२५-८ ), संस्तारके - काष्ठफलकादिलक्षणे 'मंकुणाणं' ति मत्कुणैरिति द्रष्टव्यं तैः पूर्वगृहीते- गृहस्थगृह एव संसक्ते सतीतिभावः, तत्र किमित्याह'तहेव 'त्ति ( ६२५ - ९ ), यथा गृहस्थपाणिव्यवस्थितघृतादौ मक्षिकायां पतितायां तदग्राह्यं भवति तथा संस्तारकोऽपि पूर्वसंसक्तौ अकल्प्य इति, अथ स्वीकृतः सन् संसज्यमानो दृश्यते तदा पादपुञ्छनकेन - रजोहरणेन प्रतिदिनं संसक्तिनि| षेधाय त्रिकालमपि प्रमार्ज्यते, अथ तथापि संसज्यते तर्हि तादृग्जातीये काष्ठे मत्कुणाः सङ्काम्यन्ते, एतच्च घृताद्यनेपणीय| भणनप्रसङ्गत उक्तं अन्यथा मत्कुणानां त्रीन्द्रियत्वात्तद्विधेश्च लेशतः पूर्वमुक्तत्वादिह तदुपादानमपार्थकं स्यात्, पूतरकजातीनां तु बहुत्वात्कश्चिच्चतुरिन्द्रियोऽपि स्यादिति तद्भणनमदुष्टमिति शेषं सुगमं, चतुरिन्द्रियपरिस्थापनिका समाप्ता ॥ साम्प्रतं पञ्चेन्द्रियपरिस्थापनिकोच्यते तत्रापि नपुंसकविधौ 'असिवे ओमोयरिए' इत्यादि ( ६२६ - १२ ) द्वारगाथां भाष्यकृड्याचष्टे 'रायदुट्टभए ताणट्ठे' इत्यादि ( ६२६ - १६ ) गाहा - व्याख्या - दुष्टाः - प्रत्यनीका राजा च दुष्टाश्च तेभ्यो भयानि तेषु सत्सु राजवल्लभादिनपुंसकस्तत्त्राणार्थ दीक्षितो भवति नृपस्य वाऽभिगमनार्थं - अनुकूलनार्थमिति । ग्लानद्वारमाह-यदिवा नपुंसकः स्वयमेव वैद्यो भवति तस्य वा सम्बन्धी कश्चित्स्वजनादिस्तेन प्रव्रजितेन सता ग्लानस्य पथ्य भैषज्यादिना प्रतितर्पिष्यति - उपकरिष्यतीति गाथार्थ: । 'गुरुणो य अप्पणो वा'गाहा ( ६२६ - १७), गुरोः श्रुतज्ञानं गृह्णत आदिशब्दाद्दर्शनप्रभावकाणि च सम्मत्यादिशास्त्राणि गृह्णतोऽसौ भक्तपानादिभिरुपकरिष्यति, वाशब्दस्य चशब्दार्थत्वादात्मनश्च परस्यात्मनश्च भक्तपानादिभिर्निर्वाहक्षमत्वाद्दीक्षितः स्यादितिभाव इति ज्ञानदर्शनद्वारद्वयमुक्तं, For Private & Personal Use Only पारिष्ठापनिका ॥१०१॥ jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy