Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
CREASEASEENA
काष्ठं नाम येन रजन्यादावकस्मात्कालगतः साधुर्वोढव्यस्तदुच्यते, तच्च ग्रहणार्थ पूर्वमेवालोक्यते, क पुनरित्याह-'तत्थsनत्थ वे'ति ( ६३१-१६), तत्रेति-वसतावेव किञ्चिदृढवहनकाष्ठं निरीक्ष्यते तदभावेऽन्यत्रापि-शय्यातरगृहादौ निरीक्ष्यते इति, अस्यैव वहनकाष्ठस्य सप्रपञ्चं विधिमाह-'तत्थ कट्ठस्स गहणे'इत्यादि ( ६३१-१६), आउज्जोअणादिअहिगरणदोस'त्ति ( ६३२-२), अरघट्टादियोजनादयो दोषा इत्यर्थः। 'अंगुट्ठाइसु बज्झइ'त्ति (६३३-१२) चरणाअष्ठद्वयं मीलयित्वा बध्यते, एवं कराङ्गष्ठद्वयमपीति । 'द्वे च सा क्षेत्रे नक्षत्रे'इत्यादि ( ६३४-११) इह वक्ष्यमाणान्युत्तरादीनि नक्षत्राणि पञ्चचत्वारिंशन्मुहूर्तभोक्तृणि सार्द्धक्षेत्राण्युच्यन्ते सार्द्धदिनभोक्तृणीतियावद् एवमश्विन्यादीन्यप्येकदिनभोक्तृणि समक्षेत्राण्युच्यन्ते, शतभिषगादीनि त्वर्द्धदिनभोक्तृण्यपार्द्धभोगीण्याख्यायन्ते, तेषां च किल चिरन्तनज्योतिष्कग्रन्थेष्वित्थमेव भुक्तिरासीन्नतु यथा साम्प्रतं सर्वाण्यप्येकदिनभोगीनीतिभावः । 'कायबोत्थ ककारों' इत्यादि (६३५-२०), अस्य स्थापना क (सामाचार्या तु विपरीतः कः कार्यः-क स्थापना ) "असमत्थो जइ एक्कासणयं एवं सबितियंपि'त्ति (६३७-१२), एतदुक्तं भवति-योकासनकमपि कर्तुमसमर्थो भवति तदा “सबिइअंपि”त्ति सद्वितीयमपि भोजनं कुरुते यासनकमपि करोतीतियावत् । 'पडिस्सए मुहत्तगं संचिक्खाविजइ जाव उवउत्तो'त्ति (६३८-१२), अशिवमृतत्वादवज्ञाहेतोः किलास्य समीपे मुखवस्त्रिका रजोहरणं च न मोच्यते अतस्त्रिदिवगमने उपयुक्तः सन्प्रतिश्रयस्थितं स्ववपुर्दृष्ट्या संयतोऽहमासीदिति जानीते, पितवनभूमौ तु चिह्नाभावान्न जानीयादतस्तत्रैव क्षणमात्र ध्रियते | इति भावार्थः । 'जेण संथारएण नीणितो विकरणो कीरइत्ति (६३८-१३), देवतानयनादिदोषप्रसङ्गात्खण्डीकृत्य
आ०१८ Jain Educati
-60
o
nal
For Privale & Personal use only
Vlaw.jainelibrary.org

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242