Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 212
________________ पारिष्ठापनिका आव० परिष्ठाप्यत इति भावः। संयतपरिस्थापनिका समाप्ता। इदानीमसंयतपरिस्थापनिकोच्यते-'सा तिहिं कारणोहिं पयहेजत्ति हारिक (छुन्भेजा वृ० ६४०-१) तानि चामूनि कारणानि, तद्यथा-प्रत्यनीकतया अनुकम्पया भयेन च, तानि च त्रीण्यपि टीप्पणं क्रमेण दर्शयति-तत्रापि प्रत्यनीकतया तावत्खण्डितशीलाया गर्भवत्याः श्रमण्या महोड्डाहोऽयमितिमन्यमानैः साधुभी ॥१०॥ रजोहरणादिलिङ्गे उद्दालिते ममैतैर्लिङ्गमपहृतमिति मन्यमाना प्रत्यनीकतया स्वमपत्यं जातं तदाश्रये प्रक्षिपेत् परिव्राजिकादिका वा काचिदिति, अनुकम्पया तु दुष्कालादौ काचिदुःस्थितयोषिज्जीवनाय स्वापत्यं तदाश्रये त्यजेद्, भयेन तु विधवादिरिति । 'उपेक्खेज वा पओसो वडई'इत्यादि (६४०-१७), तस्मिन् शबे वसतौ पतितेऽपि वक्ष्यमाणकारणैरुपे|क्षेत-विलम्बेत, तान्येव कारणानि दर्शयति-रजन्या मुखमेव वर्त्तते लोकश्च सञ्चरति ततो विलम्ब्य निःसंचारे विवेकः | कार्यः । 'जहा एत्थ आएसो न ऊवेहेअवो ताहे विगिंचिअन्वोत्ति (६४१-१), अत्रायं भावार्थो-यदि पुनरयमा देशः-प्राघूर्णकोऽनाथ इव लक्ष्यते तदा किञ्चित्संचरेऽपि सागारिकाभावे परिस्थाप्यत एव न विलम्ब्यते, अथातिप्रभातायां । |रात्रौ शवमिदं दृष्टं भवति तदा सकलमप्यहरतिवाह्यान्यस्यां रात्री सागारिकाभावे परिस्थाप्यते, एतच्च सर्व तदा क्रियते यदैनं वनीपकादिकं न कश्चित्प्रतिचरति-अन्वेषयति, यदा तु कश्चित्प्रतिचरति तदा तस्यैवोपरि क्षिप्यते-तस्यैव समय॑त इत्यर्थः, स च यद्रोचते तत्करोतु, "विष्पजढविगिंचणं कुज"त्ति गाथायामुक्तं, तत्र 'विप्पजढ'त्ति व्याख्यातं 'विगिंचण'समित्येतद्व्याख्यानयन्नाह-विगिचणं नाम जं तत्थ तस्स भंडोवगरण'मित्यादि ( ६४१-२), एतदुक्तं भवति-विप्पजढ | इत्यनेन वनीपकादिशबपरिष्ठापनमुक्त, विगिंचणमित्यनेन तु तदुपकरणस्येति, तत्र च वनीपकादिशरीरे खड्गादिघातोद्भूतं STORE ॥१०॥ Jain Education01 For Private & Personal Use Only Onwww.jainelibrary.org

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242