Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 207
________________ रिहर्तुं न शक्यते इत्यर्थस्तदा यद्विधेयं तदाह-तासामुद्देहिकानां यत्कुडूयादौ बिलं भवति तस्य प्रत्यासन्नीक्रियन्ते ततो निर्गत्य वस्त्रात् तत्र प्रविशन्ति, लोचे तु कृते सप्तदिनानि यावत् केशाः शोध्यन्ते, मार्गगमनादिकारणे सकृदपि शोधिता निर्व्याघातशीतलप्रदेशे परिस्थाप्यन्त इति, त्रीन्द्रियजातेबहुत्वात्प्रत्येकं वक्तुमशक्यत्वादतिदिशति-'एवमाईणं तहेवेत्यादि (५२४-१५), कीटिकाभिर्व्याप्तं पानकमनाभोगादिना गृहीतं भवति तदा शीघ्रमेव तत्पानकं गल्यते 'अह पडिता'इति (६२४-१६ ), अथ सद्योगृहीतपानके कुतश्चिदकस्मात्तस्मिन्नेव क्षणे एका द्वे बह्वयो वा कीटिकाः पतितास्तदा भक्तखरण्डितसलेपेनापि हस्तेन झगित्येवोद्भियन्ते, नन्वेवं सति संसृष्टकरसम्बन्धिभक्तावयवैः पानकं सलेपं स्यात् तथा च तत्परिभोगे साधूनां प्रत्याख्यानभङ्गप्रसङ्ग इत्याह-'अलेवाडं चेव पाणगं होति'त्ति (६२५-१), जीवदयाप्रवृत्तत्वाद्बहुतरगुणसिद्धेर्न सलेपत्वं पानकस्येति भावः, प्रसङ्गत एवाह-एवं मक्षिकापि पानकादौ पतिता झगित्येव सलेपेनापि हस्तेनोद्रियते, एतच्च सलेपत्वं करस्यैकाकिनं साधुमधिकृत्योक्तं यदा पुनर्गोचरचर्यायां साधुद्वयं पर्यटति तदैक एव भक्तं गृह्णीते स एव भक्तं करेण स्पृशति द्वितीयस्तु पानकमेव गृह्णाति तस्यालेप एव कर इति, एतदेवाह-संघाडएण पुण एगो भत्त'मित्यादि सुगमं, यदि पुनस्तन्दुलोदकादिषु पूतरको दृश्यते तदा विस्तीर्णमुखपात्रे तज्जलं प्रक्षिप्योपरि गालनकं बध्यते ततश्च तदन्तरितं तत्पानीयं कोशकेन-मृन्मयलघुभाजनविशेषेण खोरकेण वा-याचितकरोटकादिना उल्लि श्यते शेष सुगमं यावत्रीन्द्रियपारिस्थापनिका ॥ इदानीं चतुरिन्द्रियपारिस्थापनिका-'परहत्थे भत्ते पाणए वा इत्यादि BI(६२५-७), यदि दायकहस्तव्यवस्थिते घृतादौ मक्षिका पतति तदा तदग्राह्यं यतीनां, अथ गृहीते तत्रासौ पतति तदा Jain Education nal For Privale & Personal use only C w .jainelibrary.org

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242