Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 205
________________ C RECAUSACRECCASSACROADCASS गर्ता खन्यते सा च मध्यभागे लिम्पित्वा निश्छिद्रा क्रियते मधुरवृक्षपत्रेण च शनैस्तदुदकं तस्यां प्रक्षिप्यते संसक्तोदकसंसृष्टभाजनं त्वसंसक्तोदकेन वारत्रयं प्रक्षाल्यते तच्च क्षालनजलं तस्यामेव गर्त्तायां प्रक्षिप्यते, एतदेवाह-'एक्कसिं पाणएण'मित्यादि, 'पच्छा कप्पे'इति (६२४-५), पश्चाद्वारत्रयधावनोत्तरकालं कल्पं. ददाति-पात्रं प्रक्षालयतीत्यर्थः, ततः श्लक्ष्णकाष्ठालकं करोति-सूक्ष्मकाष्ठनिरन्तरं ग माच्छादयतीत्यर्थः, उपरि च कर्दमेन निश्छिद्र लिम्पयति उपरि च कण्टकवृक्षशाखया समाच्छादयति, अत्र च वृत्तावनुक्तोऽपि यः कश्चिन्मया विशेष उक्तः स आवश्यकचूर्ण्यनुसारत इति न स्वमनीषिका भावनीया विशेषार्थिना तु सैवान्वेषणीयेति । तदेवं “तं देसं चेव न गन्तवं असिवाईहिं गम्मेजे" त्यादिना "संसतमि न गम्मई"त्यादि "पायासई अंबिली” त्यादि च गाथाद्वयं व्याख्यातं, साम्प्रतं 'पायम्मि नसीयाई' इत्यादिगाथाभावार्थमाह-'तेण य भायणेण'मित्यादि ( ६२४-६), यत्र भाजने संसक्तोदकं गृहीतमासीत् तत्र शीतोदकं न गृह्यते । तत्संसक्तिप्रसङ्गात् किन्त्वेकं द्वे त्रीणि वा दिनानि यावत् तत्रावश्रावणं कूरं वा गृह्णाति, संसक्तमसंसक्तं च पानकमेक एव साधुन धरति यतोऽसंसक्तमपि पानकं संसक्तगन्धमात्रेणापि संसज्यते संसक्तं च गृहीतं विज्ञातं वाऽपरिस्थाप्य न गोचरादौ हिण्ड्यते भोजनं वा क्रियते विराधनाप्रसङ्गात्तज्जीवानां, यदि मार्गखेदादिना परिश्रान्तो भवति तदा किं विधेयमिति आह-'ये न हिंडती'त्यादि सुगम, व्याख्याता 'पायम्मि नसीयाई' इत्यादिगाथा, साम्प्रतं तक्रादिगतविधिविवक्षया "तक्काईणवि एव"मित्यादिगाथादलाभिप्रायमाह-एवं चेव महीयस्सवीत्यादि (६२४-९), तक्रस्य पानीयवत् विधिर्वक्तव्यः, संसक्तत्वेन संभाव्यमानदधिनवनीतयोविधिमाह-गालितकठिनीभूतदनो नवनीताद्वैका उण्डी-खोट्टरिका गृहीत्वा तक्रस्य Jain Educat Miational For Privale & Personal use only X ww.jainelibrary.org

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242