________________
C
RECAUSACRECCASSACROADCASS
गर्ता खन्यते सा च मध्यभागे लिम्पित्वा निश्छिद्रा क्रियते मधुरवृक्षपत्रेण च शनैस्तदुदकं तस्यां प्रक्षिप्यते संसक्तोदकसंसृष्टभाजनं त्वसंसक्तोदकेन वारत्रयं प्रक्षाल्यते तच्च क्षालनजलं तस्यामेव गर्त्तायां प्रक्षिप्यते, एतदेवाह-'एक्कसिं पाणएण'मित्यादि, 'पच्छा कप्पे'इति (६२४-५), पश्चाद्वारत्रयधावनोत्तरकालं कल्पं. ददाति-पात्रं प्रक्षालयतीत्यर्थः, ततः श्लक्ष्णकाष्ठालकं करोति-सूक्ष्मकाष्ठनिरन्तरं ग माच्छादयतीत्यर्थः, उपरि च कर्दमेन निश्छिद्र लिम्पयति उपरि च कण्टकवृक्षशाखया समाच्छादयति, अत्र च वृत्तावनुक्तोऽपि यः कश्चिन्मया विशेष उक्तः स आवश्यकचूर्ण्यनुसारत इति न स्वमनीषिका भावनीया विशेषार्थिना तु सैवान्वेषणीयेति । तदेवं “तं देसं चेव न गन्तवं असिवाईहिं गम्मेजे" त्यादिना "संसतमि न गम्मई"त्यादि "पायासई अंबिली” त्यादि च गाथाद्वयं व्याख्यातं, साम्प्रतं 'पायम्मि नसीयाई' इत्यादिगाथाभावार्थमाह-'तेण य भायणेण'मित्यादि ( ६२४-६), यत्र भाजने संसक्तोदकं गृहीतमासीत् तत्र शीतोदकं न गृह्यते । तत्संसक्तिप्रसङ्गात् किन्त्वेकं द्वे त्रीणि वा दिनानि यावत् तत्रावश्रावणं कूरं वा गृह्णाति, संसक्तमसंसक्तं च पानकमेक एव साधुन धरति यतोऽसंसक्तमपि पानकं संसक्तगन्धमात्रेणापि संसज्यते संसक्तं च गृहीतं विज्ञातं वाऽपरिस्थाप्य न गोचरादौ हिण्ड्यते भोजनं वा क्रियते विराधनाप्रसङ्गात्तज्जीवानां, यदि मार्गखेदादिना परिश्रान्तो भवति तदा किं विधेयमिति आह-'ये न हिंडती'त्यादि सुगम, व्याख्याता 'पायम्मि नसीयाई' इत्यादिगाथा, साम्प्रतं तक्रादिगतविधिविवक्षया "तक्काईणवि एव"मित्यादिगाथादलाभिप्रायमाह-एवं चेव महीयस्सवीत्यादि (६२४-९), तक्रस्य पानीयवत् विधिर्वक्तव्यः, संसक्तत्वेन संभाव्यमानदधिनवनीतयोविधिमाह-गालितकठिनीभूतदनो नवनीताद्वैका उण्डी-खोट्टरिका गृहीत्वा तक्रस्य
Jain Educat
Miational
For Privale & Personal use only
X
ww.jainelibrary.org