________________
आव० हारि० टीप्पणं
कमपि संसज्यते तत्र किं विधेयमित्याह-'बीअपाए'इत्यादि ( ६२३-२२), द्वितीयपात्रे संशोध्य २ तत उदाहितं नाम
पारिष्ठायस्मिन्पात्रेऽन्यत्पानकं गृह्यमाणमास्ते शुद्धं सत् तत्र प्रक्षिपति, अथरसजैः संसक्तं तदास पात्रं परित्यज्यते, अथ नास्ति पात्रं
पनिका तदा सार्द्रामारनालस्थालीलक्षणामम्बिलिं याचते, अथ सामम्बिलिं न लभते तदा शुष्कामपि याचते, 'उल्ले'ति अपरा चाम्लेनार्दीकृत्य तस्यां संसक्तमाचाम्लं परिक्षिपति 'असति'त्ति यदि शुष्काऽप्यम्बिली न लभ्यते तदाऽन्यस्मिन्याचितभण्डकेऽम्बिलिबीजानि नाम यैस्तन्दुलढुण्ढणकादिभिरम्बिली निष्पद्यते तानि धावनाधुदकमिश्राणि कृत्वा तत्र भण्डकेऽम्ल|ताऽऽपादनार्थ प्रक्षिप्यन्ते, अथ बीजानि न लभ्यन्ते तदा बीजरहितेऽपि तत्र तत्संसक्तपानक निधीयते, एतच्च भण्डकं यदि गृहस्थेन निर्देयरूपतया सर्वथा दत्तं भवति तदा सपानकं कस्मिश्चिन्नियाघातवृत्तिकोणे वननिकुञ्जादौ वा तत्र परिस्थाप्यते यत्र न कश्चित् तिर्यगादिरापिबति, अथाप्रातिहारिकभण्डक न लभ्यते किन्तु प्रातिहारिक लब्धं पुनरपि तद् गृहस्थस्य समर्पणीयं तदा यद् विधेयं तदाह-पच्छा पडिस्सए पाडिहारिएण तिकालं पडिलेहेति'त्ति (पाडिहारिए वा अपाडि-2 हारियं वा तिकालं-वृ०-६२४-३), पश्चादिति यद्यप्रातिहारिक भण्डकं न लभ्यत इति भावस्ततः प्रातिहारिकभण्डके प्रक्षिप्य तत्संसक्तोदकं प्रतिश्रयेऽपि ध्रियते त्रिकालं च प्रतिदिनं निरीक्ष्यते यदा जीवाः परिणता भवन्ति तदा तत्पानीयं परिस्थाप्यते अथ नाद्यापि परिणमन्ति पानीयं तु शुष्यति तदाऽन्यदपि पानीयं तत्र प्रक्षिप्यते तावद् ध्रियते यावत् ते जीवाः परिणता भवन्ति ततः पानीयं परिस्थाप्य भण्डकं गृहस्थस्य प्रत्ययंते, अथानातिहारिकमितरद्वा भण्डकं न लभ्यते तदा यद्विधेयं तदाह-'अडवीए अणागमणपहे'इत्यादि (६२४-४), एतदुक्तं भवति-निर्व्याघाते वृक्षादिच्छायाचिक्खल्ले
Jain Education in
Old
For Privale & Personal use only
jainelibrary.org