SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ प्रक्षिप्यन्ते, ततः किं विधेयमित्याह-तिन्नि ऊरणकपडिलेहणातोत्ति ( ६२३-२०) अरणिकार्थमूरणिकानां वा प्रत्यु६ पेक्षणाः शोधना उरणिकाप्रत्युपेक्षणाः तास्तिस्रो विधीयन्ते, एकः साधुः प्रत्युपेक्षते पुनर्द्वितीयः पुनस्तृतीय इत्यर्थः, कुतश्चित्कारणात् त्रयः साधवो न भवन्ति तदैकोऽपि वारत्रयं प्रत्युपेक्षेत इत्येवं तिस्रः प्रत्युपेक्षणाः, एताश्च यदि प्रथमवेलाया-1 मेकापि गड्डरिका न दृश्यते तथापि शङ्कितसक्तुषु तिस्रोऽपि कर्त्तव्या एव, यदि पुनर्गड्डुरिका दृश्यते तदा वारत्रयं नियमेन पुनः २ प्रत्युपेक्ष्यन्ते तावद्यावदेकस्यां वारायां नैकाऽपि दृष्टा पुनर्द्वितीयवारं शोध्यते न चैकापि दृष्टा एवं तृतीयवारायामपि नैकापि दृष्टा, तदा यत्कर्त्तव्यं तदाह-'नथि जति ताहे पुणो पडिलेहणाओ तिनि मुट्ठीओ गहाय जइ सुद्धा परिभुजंति'त्ति (६२३-२१), व्याख्या-यदि नास्ति-न विद्यते एकापि गड्डरिकेति गम्यते, ततः पुनरपि 'पडिलेहणाओ उत्ति प्रत्युपेक्षणात्रयं, अत्र प्रत्युपेक्षिताः सक्तवोऽप्युपचारतः प्रत्युपेक्षणा इत्युच्यन्ते अतः प्रत्युपेक्षणातःहै प्रत्युपेक्षितसक्तुभ्यो मध्याद् अथवा नोपचारः क्रियते किन्तु प्रत्युपेक्षणातः-प्रत्युपेक्षणात्रयादूर्द्धमित्यर्थः, किं विधेयमित्याह-प्रस्तुतत्वात्तेभ्य एव शोधितसक्तुभ्यो मध्यान्मुष्टित्रयं गृहीत्वा शोध्यते यदि शुद्धास्तहि परिभुज्यन्ते, अथ तस्मिन्मुष्टित्रये शोध्यमाने एकोऽपि जीवविशेषो दृश्यते तदा मूलात्पुनः सर्वेऽपि शोध्यन्ते, अत्र पाठान्तराणि बहूनि दृश्यन्ते मया त्वावश्यकचूlनुसार्येष पाठो व्याख्यातः, शेषाण्यप्यर्थतः प्रायोऽविसंवादीन्यवातो व्याख्यानुसारतोऽभियुक्तेन व्याख्येयानि, शोध्यमानेषु च सक्तुषु ये प्राणिनो लभ्यन्ते तेषां परित्यागविधिमाह-'जे तत्थ पाणा ते मल्लए'इत्यादि (६२३-२२), आकरो नाम गृहस्थसम्बन्धिसक्तुभृतस्थाल्यादिभाजनं, एवं तावदेष संसक्तभक्के विधिरुको यत्र तु पान Jain Educatio n al For Private & Personal Use Only Tww.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy