________________
आव० हारिक टीप्पणं
॥१०॥
मध्ये प्रक्षिप्यते यदि भवन्ति जीवास्तदा तत्र प्रक्षिप्ते सति दृश्यन्ते, ननु यदि तक्रं न भवति तदा वासावुण्डिका पारिष्ठा४ प्रक्षिप्यते इत्याह-'गोरसधोवणे पच्छा उण्होदकं सीयलाविजई'त्यादि ( ६२४-१०), गोरसधोवणं नाम पनिका
दधिसंसृष्टस्थाल्यादिप्रक्षालनजलं तत्रासावुण्डिका प्रक्षिप्यते तदभावे शीतीभूतोष्णोदके तस्याप्यभावे मधुरतन्दुलोदके प्रक्षिप्य निरीक्ष्यते शुद्धं परिभुज्यते संसक्तं तु उक्तयतनया परिस्थाप्यते, ननु च गालितदनः संसक्तपरिज्ञानमुक्तं सहज तु संसक्तमितरद्वेति कथं निश्चीयते ? इत्याह-'दहिअस्स पच्छओ उअत्तेता नियत्ते पडिलेहिज्जइ तीराए'त्ति (६२४-१२), अगालिते दनि भाजनपतिते सति संसक्तभ्रान्तौ सत्यां तद्दधिभाजनं तीराभिमुखमानीय पुनः पश्चाभिमुद्र खमपावय॑ते निवृत्ते च सति संसृष्टदधितीरेषु निरीक्ष्यते यदि संसक्तं भवति तदा दृश्यन्ते तत्र जीवा इत्येष तत्र संसक्तिपरिज्ञानोपायः । 'सत्तेवि (सत्तेसुवि) एसा विहि'त्ति ( ६२४-१२), इक्षुविकारे कक्कबे तीमनेऽप्येष विधिरित्यर्थः, आत्मसमुत्थं द्वीन्द्रियग्रहणमुक्तं, परसमुत्थमतिदिशति-'परोवि आभोगअणाभोगा एआणि देज'त्ति (६२४-१२), एतद्विषयं सूत्रं वस्तुतो व्याख्यातमेव, नवरं 'आभोगाईवि भइअब'मिति, द्वीन्द्रियाणामाभोगादिक ग्रहणं विभजनीयं-अनेकप्रकारं वक्तव्यमित्यर्थः, तदेवानेकप्रकारत्वं दर्शयति-'संसत्तंमि न गम्मई' इत्यादि व्याख्यातमेवेति द्वीन्द्रियपारिस्थापनिका समाप्ता ॥ साम्प्रतं त्रीन्द्रियपारिस्थापनिकोच्यते-रल्लको नाम त्रीन्द्रियजीवविशेषः, काष्ठफलकादिलक्षणः ॥१०॥ संस्तारको यदि मत्कुणैः संसक्तो भवति तदा तादृग्जातीये काष्ठान्तरेऽमी सङ्क्राम्यन्ते, उद्देहिकागृहीते तु वस्ने उत्सर्गतस्तावत्परिहरणीयमेव तद्, अथ 'नत्थि तस्स विगिंचणं'ति ( ६२४-१४), अथापरवस्त्राभावादिना केनचित्कारणेन तत्प
JanEducation
For Private & Personal use only
S
ainelibrary.org