Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 197
________________ Jain Education विहि'त्ति ( ६२१- ६ ) एष पूर्वोक्तः शुद्धसचित्तोदकत्यागविधिः, ननु यद्यसौ शुद्धसचित्तोदकत्यागे विधिरुक्तस्तर्हि प्रत्यनीकतादिकारणतो यत्सचित्तमचित्तं च मिश्रयित्वा दात्री ददाति तस्य को विधिरित्याह- 'जं पडिणीयत्ताए' इत्यादि ( ६२१- ६ ), दात्र्याऽष्कायमिश्रमुदकं दत्तं तच्च यदि साधुना विविक्ते पूर्वगृहीतजलरहिते भाजने गृहीतं तदा सूत्रोक्तयतनया परिस्थापयति, कूपतडागादिजले तु पूर्ववत् नेदं प्रक्षिप्यते तद्विराधनाप्रसङ्गात्, ननु विविक्तभाजने गृहीतमिश्र - जलस्य भवत्वेवं यदा तु पूर्वगृहीताचित्तजलयुक्ते भाजने सचित्तमुदकं गृहीतं भवति तदा को विधिरित्याह- 'जं संजयस्से' - त्यादि ( ६२१-६), एतदुक्तं भवति - यदि पूर्वगृहीतारनालादेर्मध्ये सचित्तजलं कथञ्चिद्गृहीतं भवति तदा यदि स्थण्डि - लमाप्नुवतोऽर्वागपि परिणतं तलक्ष्यते तदा परिभुज्यते, अथ यावता कालेन स्थण्डिलमवाप्नोति तावता कालेन न परिणमति तदा परिस्थाप्यते हरितन्वादिभावे तु प्रतीक्ष्य शुष्केषु तेषु परित्यज्यते, एतद्व्याख्यानुसारतः सूत्रमपि सुधियाऽभ्यूह्यं, नवरं 'इयरंपि एमेव ेत्ति यथा आत्मसमुत्थमाभोगतोऽनाभोगतश्च वर्णितं तथा परसमुत्थमपि वाच्यमित्यर्थः । 'वाघायम्मि व'त्ति व्याघातो नाम कूपदवरकाद्यभावः स्तेनश्वापदादिभयलक्षणः । साम्प्रतं तेजः काय विधिरुच्यते- 'आभोएण छारेण देज'त्ति ( ६२१ - १३ ) मुर्मुराग्निं छारेण मिश्रयित्वा कश्चिद् दद्यादित्यर्थः, 'वसहीए अगणिं जोई वा करेजत्ति ( ६२१-१३ ) प्रत्यनीकतया भक्तितो वा अग्निं प्रदीपं वा प्रज्वाल्य वसतावुद्योतं कश्चित्कुर्यादितिभावः । 'पूअ - लियं वा सइंगालं देज' त्ति ( ६२१-१४ ) विलग्नाङ्गारशकलां रोट्टिकां दद्यादित्यर्थः । सूत्रमनुश्रियते 'अचित्तमीसगा नवरमुण्हपासाणमाइया नेय'त्ति इह किलाग्निः सचित्ताचित्तमिश्रभेदात्रिधा भवति, तत्र सचित्तोऽङ्गारादिः प्रतीत एव, For Private & Personal Use Only v.jainelibrary.org

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242