Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 200
________________ आव० हारि० टीप्पणं अन्यथाऽपि विवेचनीयमिति । 'परो अल्लएण मीसियगंति ( ६२२-१०), कश्चिद्गृहस्थः सचित्तशृङ्गाबेरेण मिश्रितं || पारिष्ठाकिञ्चित्पूरणादिकं वस्तु दद्यादिति शेषः, चवलकैर्वा मिश्रितानि पीलूनि दद्याद्, अथवा कूरस्य भक्तस्य ओडिका-खोट्टरिका | पनिका तदन्तः प्रक्षिप्य किञ्चित्सचित्तं फलादिवस्तु दद्यादित्यध्याहारः, करमन्दकैर्वा मिश्रितं काञ्जिकं दद्यात् , तानि हि किल क्वचिकाञ्जिकस्याम्लतापादनार्थ तन्मध्ये प्रक्षिप्यन्त एवेति, अन्यतरो वा मुद्गमाषादिबीजकायः काञ्जिकादिषु पतितो भवेत् स चानाभोगतो गृहीतः स्यादिति, एवं तिलानामप्यनाभोगतो ग्रहणं भवेत् , व पुनस्तेषां संभव इत्याह-निवतिलमाइएसु होज'त्ति ( ६२२-११), चैत्रमासे हि किल क्वचिन्निम्बपत्राणि तिलमिश्राणि कुट्टयित्वा हृदयशुद्धयर्थ निम्बतिलकाः क्रियन्ते, तत्र केचित्सचित्ता अपि स्युः ते च निम्बतिलकां गृह्णानेन गृहीता भवेयुः, आदिशब्दादन्यत्रापि क्वचित्पक्वान्नादौ पतिता भवेयुरिति, अत्र च ग्लानादिकार्ये यत्सचित्तं मूलाद्याभोगेन गृहीतं गृहस्थेन वाऽऽभोगतो दत्तं तत्सिद्धे प्रयोजने परिशिष्टं पूर्वोक्तेन वक्ष्यमाणेन च विधिना परित्यज्यते, तदेवाह-'जइ आभोगगहिय'मित्यादि ( ६२२-११), यत् पुन लोट्टपिष्टादिकमनाभोगतः साधुना गृहीतं गृहस्थेन वाऽनाभोगतो दत्तं तद् यदि शक्नोति भक्तमध्याद्विवेक्तु-उद्धर्तुं तदोदादृत्य प्रथमं तावत् परस्य-दायकस्य सम्बन्धि यत्पात्रं-स्थाल्यादि यत आनीय गृहस्थेन तद्दत्तं तस्मिन्नेव परित्यज्यते यदि दायकः समनुजानीते, अथ न समनुजानाति तदा स्वपात्रेऽपि-याचितमधुरकर्परादौ निधाय शीतलाचित्तप्रदेशे परित्यज्यते, एतदेव सूचयति-'अणाभोगगहिए' इत्यादि यावत् 'पढमं परपाए'त्ति (६२२-१२), यदि पुनः सलेपद्रव्यमध्यपतितति|लादिकमुद्धर्तुं न शक्नोति तदा सर्वमेव तद्वस्तु यतनया परिहरति, संस्तारके दण्डके वा यदि पनकः संमूञ्छितो भवति ॥९७॥ JainEducationi For Private Personal Use Only

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242