Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सचित्तो भवतीति गाथार्थः, शेषं स्पष्टमिति वायुकायविधिः समाप्तः ॥ साम्प्रतं वनस्पतिविषयो विधिरारभ्यते-तत्राभोगेन सचित्तान्यपि मूलादीनि गृहीत्वा घर्षयित्वा गण्डादिषूपयुज्यन्ते, अनाभोगेन तर्हि किं गृह्णीयादित्याह-भक्ते-कूरादौ करडिप्रभृतीनां सम्बन्धी लोट्टः पतितो भवति, स चानाभोगतो गृहीतः स्यात् पिष्टकं वा यवगोधूमादीनां सम्बन्धि सद्योदलितमनाभोगतो गृहीतं भवेत् करडिप्रभृतिधान्यानामेव सम्बन्धिनः कुक्कुसा वा गृहीताः स्युः। 'सो चेव पोरिसिविभागो'त्ति ( ६२२-९), य एव वायुकायविधौ पौरुष्यादिकालविभाग उक्तः स एवेहापि द्रष्टव्यः, केवलं तत्राचित्तस्य सतः पवनस्याचित्तमिश्रसचित्तरूपतायां कालविभाग उक्तः अत्र तु लोट्टादेः सचित्तस्य सतः सचित्तमिश्राचित्तरूपतायां कालविभागो योज्यः, तथा पूर्व स्निग्धकाले पौरुष्यो रूक्षकाले तु दिनान्युक्तानि अत्र तु व्यत्ययेन योज्यं, एतदुक्तं भवति-सा दात्री पृच्छचते-कियती वेलाऽस्य कुट्टितस्य लोट्टादेर्वर्त्तते, ततश्च यदि रूक्षकालसम्बन्धिनी पौरुष्येकाऽतिक्रान्ता भवति तदा नाद्याप्यचित्तीभूत इत्यवसेयं, द्वितीयपौरुष्यतिक्रमेऽप्येवमेव, तृतीयपौरुष्यतिक्रमे त्वचित्तीभूत इति पतितोऽपि भक्तमध्ये न परिहार्यो भवति, स्निग्धकालेऽप्येवमेव, केवलं पौरुषीस्थाने दिनानि वाच्यानि, एतच्च परिस्थूरन्यायमाश्रित्य दिग्मात्रप्रदर्शनमेव, कदाचिदत्यन्तश्लक्ष्णीकृतकणिकालोट्टादिकं झगित्येव परिणमेद् अन्यत्तु बादरबीजशकलयुक्तं चिरमपि सचेतनं सम्भवेदिति, कोऽत्र नियम इत्येतदेवाह-दुकुट्टिए चिरंपि होज' ( दुक्कुडिओ चिरंपि होजा-वृ०-६२२-९), सचित्तमितिशेषः, तस्माद्देशकालाद्यभिज्ञेन साधुनैवेह निपुणेन भवितव्यं, इदानीं तु कणिक्कादिकं दलनकालादूर्द्ध घटिका-2 द्वयमात्रं च वर्जयन्तो दृश्यन्ते इति यथावगतं गमनिकामात्रमिदमुक्तं तत्त्वं तु केवलिनो विदन्ति अन्येन वा सुधिया
आ. १७
Jain Education Interational
For Private & Personal Use Only
_____www.jainelibrary.org

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242