SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ सचित्तो भवतीति गाथार्थः, शेषं स्पष्टमिति वायुकायविधिः समाप्तः ॥ साम्प्रतं वनस्पतिविषयो विधिरारभ्यते-तत्राभोगेन सचित्तान्यपि मूलादीनि गृहीत्वा घर्षयित्वा गण्डादिषूपयुज्यन्ते, अनाभोगेन तर्हि किं गृह्णीयादित्याह-भक्ते-कूरादौ करडिप्रभृतीनां सम्बन्धी लोट्टः पतितो भवति, स चानाभोगतो गृहीतः स्यात् पिष्टकं वा यवगोधूमादीनां सम्बन्धि सद्योदलितमनाभोगतो गृहीतं भवेत् करडिप्रभृतिधान्यानामेव सम्बन्धिनः कुक्कुसा वा गृहीताः स्युः। 'सो चेव पोरिसिविभागो'त्ति ( ६२२-९), य एव वायुकायविधौ पौरुष्यादिकालविभाग उक्तः स एवेहापि द्रष्टव्यः, केवलं तत्राचित्तस्य सतः पवनस्याचित्तमिश्रसचित्तरूपतायां कालविभाग उक्तः अत्र तु लोट्टादेः सचित्तस्य सतः सचित्तमिश्राचित्तरूपतायां कालविभागो योज्यः, तथा पूर्व स्निग्धकाले पौरुष्यो रूक्षकाले तु दिनान्युक्तानि अत्र तु व्यत्ययेन योज्यं, एतदुक्तं भवति-सा दात्री पृच्छचते-कियती वेलाऽस्य कुट्टितस्य लोट्टादेर्वर्त्तते, ततश्च यदि रूक्षकालसम्बन्धिनी पौरुष्येकाऽतिक्रान्ता भवति तदा नाद्याप्यचित्तीभूत इत्यवसेयं, द्वितीयपौरुष्यतिक्रमेऽप्येवमेव, तृतीयपौरुष्यतिक्रमे त्वचित्तीभूत इति पतितोऽपि भक्तमध्ये न परिहार्यो भवति, स्निग्धकालेऽप्येवमेव, केवलं पौरुषीस्थाने दिनानि वाच्यानि, एतच्च परिस्थूरन्यायमाश्रित्य दिग्मात्रप्रदर्शनमेव, कदाचिदत्यन्तश्लक्ष्णीकृतकणिकालोट्टादिकं झगित्येव परिणमेद् अन्यत्तु बादरबीजशकलयुक्तं चिरमपि सचेतनं सम्भवेदिति, कोऽत्र नियम इत्येतदेवाह-दुकुट्टिए चिरंपि होज' ( दुक्कुडिओ चिरंपि होजा-वृ०-६२२-९), सचित्तमितिशेषः, तस्माद्देशकालाद्यभिज्ञेन साधुनैवेह निपुणेन भवितव्यं, इदानीं तु कणिक्कादिकं दलनकालादूर्द्ध घटिका-2 द्वयमात्रं च वर्जयन्तो दृश्यन्ते इति यथावगतं गमनिकामात्रमिदमुक्तं तत्त्वं तु केवलिनो विदन्ति अन्येन वा सुधिया आ. १७ Jain Education Interational For Private & Personal Use Only _____www.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy