Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 193
________________ वच्छिन्नं सदुपचारतस्तु प्रतिष्ठकाद्याकारं लोकक्षेत्रमुच्यते धर्माधर्मयोरपि तद्वृत्तित्वात् तन्निबन्धन एवोपचारतः संस्थानव्यवहारः अत एवाह-'धर्माधर्मयोरपि लोकक्षेत्रे'त्यादि (५९९-१६), ननु लोकक्षेत्रस्यैव किं संस्थानमित्याह-'हिट्ठा मझेगाहा व्याख्या-अधस्तान्मध्ये उपरिच यथासंख्यं छविझल्लरिमृदङ्गसंस्थानो लोकोऽवसेयः तत्र छबी-नाम विस्तीर्णा पुष्पचङ्गेरी तदाकारोऽधोलोकः, तिर्यग्लोको झलाकारः, ऊर्द्धलोकस्तु मृदङ्गाकार इति, नन्ववगतमुक्तक्रमेण धर्माधर्माकाशजीवपुद्गलानां संस्थानं, अथ कालस्य किं संस्थानमित्याह-'अद्धागारो अद्धाखित्तागिती नेतो'त्ति अद्धायाः-कालस्याकारोऽद्धाक्षेत्रं-मनुष्यक्षेत्रं तदाकृतिज्ञेयः, सूर्य क्रियाभिव्यङ्गयो हि कालः किल मनुजक्षेत्र एव वर्त्तते, अतो य एव तस्याकारः स एव कालस्याप्युपचारतो विज्ञेय इतिगाथार्थः। सेलीसीति प्राकृतनामाधिकृत्य व्युत्पत्तिमाह-'अहवा सेलोच इसी'गाहा (६०६-१३ ), व्याख्या-सेल इव इसी-महर्षिः शैलेशीति भवति, ननु शैलेशी तस्य महर्षेःकाचिद्विशिष्टाऽवस्थैवोच्यते कथं शैलेशीप्रतिपत्ता मुनिरप्येवं व्यपदिश्यत ? इत्याह-सोऽप्येवं व्यपदेश्यो भवति स्थिरतया हेतुभूतया, स हि महर्षिस्तस्यामवस्थायां शैलवत् स्थिरो भवतीति शैलेशीत्युच्यते, एनमेव प्राकृतशब्दमधिकृत्य व्युत्पत्त्यन्तरमाह-'सोवेति वाशब्दः पक्षान्तरद्योतकः, स शैलेशीप्रतिपत्ता मुनिः 'अलेसीहोईत्ति तस्यामवस्थायामलेश्यः-समस्तलेश्याविकलो भवतीतिकृत्वा, अलेशीतिपदसम्बन्धिनोऽकारस्य लोपं कृत्वा सेलेशीति प्राकृतशब्देन सेलेसी प्रतिपत्ताभिधीयत इतिगाथार्थः। समाप्तं ध्यानशतं । 'जीवनेसत्थीया रायाइसंदेसातो जहा उद्गस्स जताईहि'मित्यादि ( ६१३-१५), जीवाज्जीवेन वा हेतुभूतेन वस्तूदकादि निसृजति यस्यां जीवनिपातनात् सा जीवनसृष्टिकी, अत्र हि राजादिजीवात्-तदादेशादित्यर्थः तेन Jain Educat onal For Private & Personal Use Only X kww.jainelibrary.org

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242