Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 163
________________ द्वादश सर्वे पिण्डिताः पञ्चदश अविरुद्धसान्निपातिकभेदा भवन्ति, सान्निपातिकभेदा हि किलान्यथा-प्ररूपणायां षड्विंशतिभवन्ति, तद्यथा-औदयिकादिभावपञ्चकस्य द्विकसंयोगे दश, त्रिकसंयोगेऽपि दशैव, चतुष्कसंयोगे पञ्च, पञ्चकसंयोगे त्वेकः, | सर्वेऽपि पड्विंशतिः, एते च विरुद्धा उच्यन्ते, केषाञ्चित् क्वचिदुपलभ्यमानत्वेन प्ररूपणामात्रकत्वात् , प्रस्तुतास्तु पञ्चदशोतन्यायेन लभ्यमानत्वादविरुद्धाः, अत उक्तं-"अविरुद्धसन्निवाइयभेया उ पन्नरसत्तीति" गाथाद्वयभावार्थः । इह तु किल नैगमनयदर्शनं मूढनयदर्शनं वाऽधिकृत्ये त्यादि (४९६-५), एतदुक्तं भवति-जैगमवर्जा हि किल शेषाः षडू नयाः केचित् केवलसामान्यवादिनः केचित्तु केवलविशेषवादिनः, तत्र यदि सामान्यवादिनयमतमाश्रीयते तदा पर्यायसामान्यस्यैकत्वाच्चतुर्विधत्वं पर्यायलोकस्यानुपपन्नं स्यात्, विशेषवादिनयास्तु प्रत्येकं भिन्नत्वात्पर्यायाणामनन्तमेव पर्यायलोकमिच्छन्ति न चतुर्विध, नैगमः पुनरनेकरूपत्वाच्चतुर्विधमपीच्छति पर्यायलोकमतस्तन्मतमिहाश्रीयते, यदिवा “मूढनइयं सुयं| कालियं त्वि"त्यादिवचनात्किल प्रायः साम्प्रतं सूत्राणि नयन विचार्यन्ते एवेति मूढनयदर्शनाश्रयणाद्विवक्षावशेनैव कियतोऽपि भेदानाश्रित्य पर्यायलोकस्य चातुर्विध्यमुच्यत इति । 'सीताकरो-भोग' इति (४९९-६), सीता-लागलपद्धतिः तामाश्रित्य करो-भोगो धान्ययाचनमित्यर्थः। 'आसेवनायामयमेव प्रथमस्थाने कार्य'इति ( ४९९-१४) एतदुक्तं भवति-यद्यप्यशुभकर्मवशतया पश्चात्कश्चिदप्रशस्तमपि भावमासेवते तथापि मुमुक्षुणा प्रथमं तावत्प्रशस्त एवासेवनीय इति |ज्ञापनार्थ "दुविहो उ होइ भावो पसत्थ तह अप्पसत्थो य” इत्यत्र प्रथम प्रशस्तभावोपादानमिति । 'सामर्थे वर्णेनायां चेत्यादि (५००-१३), व्याख्या-सामर्थ्य तावद्वर्त्ततेऽसौ कल्पशब्दः तदर्थधातुनिष्पन्नत्वाद्, वर्णनायां यथा-क आ०१४ Jain Educati o nal For Privale & Personal Use Only IXhw.jainelibrary.org

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242