________________
द्वादश सर्वे पिण्डिताः पञ्चदश अविरुद्धसान्निपातिकभेदा भवन्ति, सान्निपातिकभेदा हि किलान्यथा-प्ररूपणायां षड्विंशतिभवन्ति, तद्यथा-औदयिकादिभावपञ्चकस्य द्विकसंयोगे दश, त्रिकसंयोगेऽपि दशैव, चतुष्कसंयोगे पञ्च, पञ्चकसंयोगे त्वेकः, | सर्वेऽपि पड्विंशतिः, एते च विरुद्धा उच्यन्ते, केषाञ्चित् क्वचिदुपलभ्यमानत्वेन प्ररूपणामात्रकत्वात् , प्रस्तुतास्तु पञ्चदशोतन्यायेन लभ्यमानत्वादविरुद्धाः, अत उक्तं-"अविरुद्धसन्निवाइयभेया उ पन्नरसत्तीति" गाथाद्वयभावार्थः । इह तु किल नैगमनयदर्शनं मूढनयदर्शनं वाऽधिकृत्ये त्यादि (४९६-५), एतदुक्तं भवति-जैगमवर्जा हि किल शेषाः षडू नयाः केचित् केवलसामान्यवादिनः केचित्तु केवलविशेषवादिनः, तत्र यदि सामान्यवादिनयमतमाश्रीयते तदा पर्यायसामान्यस्यैकत्वाच्चतुर्विधत्वं पर्यायलोकस्यानुपपन्नं स्यात्, विशेषवादिनयास्तु प्रत्येकं भिन्नत्वात्पर्यायाणामनन्तमेव पर्यायलोकमिच्छन्ति न चतुर्विध, नैगमः पुनरनेकरूपत्वाच्चतुर्विधमपीच्छति पर्यायलोकमतस्तन्मतमिहाश्रीयते, यदिवा “मूढनइयं सुयं| कालियं त्वि"त्यादिवचनात्किल प्रायः साम्प्रतं सूत्राणि नयन विचार्यन्ते एवेति मूढनयदर्शनाश्रयणाद्विवक्षावशेनैव कियतोऽपि भेदानाश्रित्य पर्यायलोकस्य चातुर्विध्यमुच्यत इति । 'सीताकरो-भोग' इति (४९९-६), सीता-लागलपद्धतिः तामाश्रित्य करो-भोगो धान्ययाचनमित्यर्थः। 'आसेवनायामयमेव प्रथमस्थाने कार्य'इति ( ४९९-१४) एतदुक्तं भवति-यद्यप्यशुभकर्मवशतया पश्चात्कश्चिदप्रशस्तमपि भावमासेवते तथापि मुमुक्षुणा प्रथमं तावत्प्रशस्त एवासेवनीय इति |ज्ञापनार्थ "दुविहो उ होइ भावो पसत्थ तह अप्पसत्थो य” इत्यत्र प्रथम प्रशस्तभावोपादानमिति । 'सामर्थे वर्णेनायां चेत्यादि (५००-१३), व्याख्या-सामर्थ्य तावद्वर्त्ततेऽसौ कल्पशब्दः तदर्थधातुनिष्पन्नत्वाद्, वर्णनायां यथा-क
आ०१४
Jain Educati
o
nal
For Privale & Personal Use Only
IXhw.jainelibrary.org