SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ आव० हारि० टीप्पणं ॥७९॥ ४ल्पितो-वर्णितः श्लाघितो देवदत्तः, छेदने यथा-कल्पितं-छेदितं द्विधाकृतं वस्त्रमिति, करणे यथा-ब्राह्मणार्थं कल्पिताःचतुर्विंशपूपाः, कृता इत्यर्थः, औपम्ये यथा-समुद्रकल्पमिदं तडागं, अधिवासे यथा-कल्पिता-अधिवासिता स्नानाय सज्जिता प्रति-18|| |तिस्तवे क|मेत्यर्थः, एतेष्वर्थेषु कल्पशब्दं विदुर्बुधा इति श्लोकार्थः । ताव एगइयाओ भवह'त्ति (५०३-१), यावन्मम पुत्रो रनिक्षेपः भवति तावदेकीभूय स्थीयतामिति भावः । 'आमंतणि'गाहा 'अणभिग्गहिआ'गाहा (५०८-२४ ), व्याख्या-इह भाषाभेदाः यत्किल वस्तुनः साधकत्वेन बाधकत्वेन वा प्रमाणान्तरैरबाधितं वचनमुच्यते तत्सत्यं, तदेव प्रमाणैर्बाध्यमानं सन्मृषा, तदेव बाध्यमानाबाध्यमानं मिश्र, यत्तु वस्तुसाधकबाधकत्वाविवक्षया व्यवहारपतितस्वरूपमात्राभिधित्सया प्रोच्यते तदसत्यामृष, तत्र आमन्त्रणी यथा-हे देवदत्त इत्यादि, इयं हि वस्तुसाधकबाधकत्वाभ्यामप्रवृत्तेः स्वरूपमात्राभिधानपरत्वादसत्यामृषेति, आज्ञापनी यथा-त्वमिदं कुरु, इयमपि स्वरूपमात्राभिधानपरत्वादसत्यामृषैव, यद्येवं सत्याऽप्यसत्यामृषातो न | भिद्यते तस्या अपि जीवाजीवादिस्वरूपाभिधानमात्रकत्वादिति चेत् कः किमाह ?, यतो यदा परेण सह विप्रतिपत्ती सत्यां | | वस्तुतत्त्वव्यवस्थापनेच्छया प्रमाणाबाधितं जीवादिस्वरूपाभिधायकं वचनमुच्यते तदा सत्यव्यपदेशं लभते, तदेव यदाऽवि प्रतिपत्तौ तीर्थकरादिर्देशनाद्यवस्थायां जीवादिस्वरूपाविर्भावनमात्रविवक्षया ब्रूते तदाऽसत्यामृषमुच्यत इति विवक्षैवात्र |प्रमाणमिति न काचित्क्षतिरिति, एवमन्यत्रापि स्वबुद्ध्या भावनीयमिति, याचनी यथा-भिक्षां प्रयच्छ, तथा पृच्छनी यथा-| C ॥७९॥ कथमेतदिति, प्रज्ञापनी यथा-हिंसादिप्रवृत्तो दुःखितादिर्भवति, प्रत्याख्यानीभाषा यथा-न दास्यामि ते, इच्छानुलोमा च भाषा यथा-केनचित्कश्चिदुक्ता-साधुसकाशं गच्छामः, स आह-शोभनमिदमिति, अनभिगृहीता भाषा-अर्थमनभिगृह्य 25 JanEducation For Private Personal Use Only
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy