________________
अयुना
या प्रोच्यते डित्यादिवदिति, भाषा चाभिग्रहे बोद्धव्या-अर्थमभिगृह्य या प्रोच्यते घटादिवदिति, संशयकरणी भाषा अनेकार्थसाधारणा या प्रोच्यते-सैन्धवमित्यादिवदिति, व्याकृता-स्पष्टा प्रकटार्था देवदत्त एष ते भ्रातेत्यादिवदिति, अव्याकृता चैव अस्पष्टा-अप्रकटार्था बाललल्लादीनां थपनिकेत्यादिवदिति गाथाद्वयार्थः । चतुर्विंशतिस्तवः समाप्तः॥
अधुना वन्दनाध्ययनमारभ्यते 'अच्छंति'त्ति (५१२-१९), तिष्ठन्ति स्वोपाश्रयेऽपि तावदाचार्याः किं मन्यमाना ? इत्याह-मन्ये भागिनेया बहिरपि सूत्रपौरुषीं कुर्वन्तीति, ततः सापि सूत्रपौरुष्युद्घाटितादिना अवसिता, ततश्चिन्तयन्ति-मन्ये अर्थपौरुषीं विधाय समेव्यन्ति, तथापि नायातास्ततोऽतिचिरायितमित्याचार्यास्तत्रैव गताः । पार्श्वस्थादिलक्षणप्रतिपादकगाथा वृत्तिकारेण न विवृताः अतस्तासु यथावैषम्यं किञ्चिद् वित्रियते-'सो पासत्थो गाहा (५१७-११ ) व्याख्या-सोऽनन्तरोद्दिष्टः पार्श्वस्थो द्विविधः, एतदेवाह-सर्वतो देशतश्च, तत्र सर्वपक्षे ज्ञानदर्शनचारित्रेभ्यः पार्श्वे-पृथग् यो वर्त्तते स पार्श्वस्थः, अत्र निषीथचूर्णिः "सुत्तो अच्छइ सुत्तपोरिसिं अत्थपोरिसिं वा न करेइ, दसणाआरेसुन वट्टइ चारित्ते न वट्टइ, अइआरे वा न वजेइ, एवं सत्थो अच्छइ पासत्थो" अनेन चूर्णिणग्रन्थेन ज्ञानदर्शनचारित्रेभ्यो येन पार्श्वस्थत्वं भवति तत्क्रमेण दर्शितमिति मन्तव्यमिति गाथार्थः । देशत आह-'देसंमि उ'गाहा (५१७-१२) देशे-देशपक्षे पार्श्वस्थः, क इत्याह-शय्यातरपिण्डम| भ्याहृतपिण्डं नित्यपिण्डं च यो भुङ्ग इति सम्बन्धः, 'नीयं च अग्गपिंडं ति चशब्दस्य व्यवहितः सम्बन्धोऽअपिण्डं च भुते, | कथम्भूतमित्याह-नित्यं-अनवरतं, एवं शय्यातरपिण्डादिभोजनेऽप्ययं नित्यशब्दो योजनीयः, कथमित्याह-निष्कारणेनैव,
एवं सत्या गाथार्थः । देशच यो भुत इतिशय्यातरपिण्डा
Jan Education intematonal
For Private & Personal use only