________________
आव० हारि० टीप्पणं
सकारणस्तु भुञ्जानो विशुद्धचारित्र्येवेत्यर्थः, इत्यक्षरयोजना, भावार्थस्त्वयं-शय्यया-साधुसमर्पितगृहलक्षणया भवार्णवं तर-31 पार्श्वस्थातीति शय्यातरस्तस्य पिण्डो-वक्ष्यमाणलक्षणस्तं यो नित्यं भुङ्क्ते स देशपार्श्वस्थः, सोपयोगत्वादत्र किञ्चित्प्रासङ्गिकमुच्यते, दिभेदा: | अथ कोऽयं शय्यातरः १ कदा च शय्यातरो भवति २ कतिविधश्च तत्पिण्डः ३ कदा वाऽशय्यातरो भवति ४ कस्य सम्ब-IN न्ध्यसौ वर्जनीयः ५ के च तत्पिण्डग्रहणे दोषाः ६ कदा च तत्पिण्डो गृह्यते ७ क्व च शय्यातरो भवती ८ त्यष्टौ द्वाराणि, तत्राद्यद्वारे-यतिप्रदत्तोपाश्रयप्रभुः तेन यत्कृतप्रमाणतया निर्दिष्टो वा शय्यातरः, द्वितीयद्वारे यदा शय्यातरगृहे रात्रौ सुप्त्वा जागरित्वा वा प्राभातिकप्रतिक्रमणं कुर्वन्ति तदाऽसौ शय्यातरः, अथैतच्छय्यायां सकलां रात्रि जागरित्वा प्राभातिकप्रतिक्रमणमन्यत्र कुर्वन्ति तदा मौलः शय्यातरो न भवति, किन्तु यद्गृहे प्रतिक्रमणं कृतं स एव, अथ मूलशय्यायां रात्रौ सुत्वाऽन्यत्र प्रातः प्रतिक्रामति तदा मौलोऽन्यश्च द्वावपि शय्यातरौ, यदा तु वसतिसंकीर्णतादिकारणाद् अनेकोपाश्रयेषु साधवस्तिष्ठन्ति तदा यत्राचार्यः स्थितः स शय्यातरो नान्यः, तृतीयद्वारे द्वादशधा तत्पिण्डः, तदुक्तम्-“असणाईआ चउरो पाउंछण वत्थपत्तकंबलयं । सूईछुरकन्नसोहण नहरणिया सागारियपिंडो॥१॥" अयं तु वक्ष्यमाणः तदपिण्डः-5 तणडगलछारमल्लग सेज्जासंथारपीढलेवाई । सिज्जायरपिंडो सोन होइ सेहो य सोवहिओ ॥१॥ चतुर्थद्वारे-अहोरात्रात्परतो शय्यातरो भवति, यदुक्तं-"वुच्छे वजेजऽहोरत्तं” इदमत्र हृदयं-यत्रोषितास्ततः स्थानाद् यस्यां वेलायां निर्गता द्वितीयदिने ॥ तावत्या वेलायाः परतोऽशय्यातरो भवति, पञ्चमद्वारे-साधुगुणविरहितस्य लिङ्गमात्रावशेषस्यापि सम्बन्धी शय्यातरो वर्ज-| नीयः, षष्ठद्वारे-'तित्थंकरपडिकुट्ठो आणा अन्नाय उग्गमोविअन सुझे । अविमुत्ति अलाघवया दुल्लहसेजाइ वोच्छेओ॥१॥
Jan Education
For Private & Personal Use Only