________________
आव० हारि० टीप्पणं
चतुर्विंशतिस्तवः
इत्याह-'अन्यस्याश्रुतत्वादिति, ननु यदि नामैवात्र पृष्टव्यं तत्किमिति क इत्यनेन पुंस्त्वनिर्देशः कृतो वृत्तिकृता ?, | सत्यं, किन्तु को नामनिष्पन्नो निक्षेप इति निक्षेपापेक्षयेत्थं निर्देशो वस्तुतः पुनर्नामैवात्र पृष्टव्यमित्यदोषः । 'परमाणवस्त्वप्रदेशा एवेति (४९४-२३), ननु यदि सामान्यविशेषरूपतया प्रदेशत्वमप्रदेशत्वं च गीयते तर्हि परमाणोरप्युभय-1 रूपता किं न स्याद् येनोच्यते परमाणवस्त्वप्रदेशा इति, न हि जैनानां किञ्चिद्वस्तु सामान्यविशेषरूपतामतिकामति, सत्यं, विद्यते परमाणुषु तिर्यक्सामान्यं न पुनः स्वावयवव्यापितत्वलक्षणमूर्द्धसामान्यं, निरवयवत्वादेव तेषामित्यदोषः ॥ 'उदइयखओवसमिय' गाहा 'उवसमसेढी एक्को' गाहा (४९५-२६), नारकाणामौदयिको भावो-नरकगत्यादिः, क्षायोपशमिकस्विन्द्रियसम्पन्नतादिः पारिणामिकस्तु जीवत्वादिरित्येवं भावत्रयनिष्पन्नो नरकगतावेको भङ्गः, एवं तिर्यग्न-1 रामरगतिष्वप्येकैको वाच्यः, ततो गतिचतुष्टयेऽपि चत्वारो भङ्गा भवन्ति, तथाऽभिहितस्वरूपे भावत्रये क्षायिकभावप्रक्षेपे |भावचतुष्टयनिष्पन्न एको भङ्गो भवति, गतिचतुष्टयसम्बन्धात् चत्वारो भङ्गाः सम्पद्यन्ते, क्षायिकभावसम्पन्ना हि क्षायिकसम्यग्दृष्टयः सर्वास्वपि गतिषु लभ्यन्ते, अथ क्षायिकमपहाय तत्स्थाने औपशमिकः प्रक्षिप्यते, तद्योगेनापि गतिचतुष्टये चत्वारो भङ्गा भवन्ति, प्रथममेव सम्यक्त्वमासादयतां हि गतिचतुष्टये प्राप्यते औपशमिको भावः, एवं सर्वेऽपि द्वादश, तथा दर्शनसप्तकं क्षपयित्वा य उपशमश्रेणी विधत्ते तस्यौदयिकौपश मिकक्षायिकक्षायोपशमिकपारणामिकभावपञ्चकनिष्पन्न एको भङ्गो लभ्यते, केवलिनोऽप्यौदयिकक्षायिकपारिणामिकभावत्रयनिष्पन्न एक एव क्षायोपशमिकस्त्वस्य नास्ति 'अतीन्द्रियाः केवलिन' इतिवचनात्, सिद्धस्यापि क्षायिकपारिणामिकभावद्वयनिष्पन्न एक एव, एते सर्वेऽपि त्रयः पूर्वोक्ता
॥७८॥
Jain Education
na
For Privale & Personal use only
jainelibrary.org