SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Jain Educatio यदि ह्येवमुण्ठतया सम्बन्धः क्रियते तर्हि यदा कश्चित् 'मंसं पञ्चक्खामि अन्नत्थणाभोगेण' मित्यादिना मांसविरतिमभिधाय पर्यन्ते व्युत्सृजामीति ब्रवीति तदाऽत्राप्यनन्तरोक्तां मांसविरतिं व्युत्सृजामीत्यनिष्टसम्बन्धः स्याद्, अथात्र मांस| विरतिविपक्ष एव त्याज्यत्वेन मनसि विवक्षितो मनोगत एव च भावः प्रत्याख्यानं भवतीति नानिष्टः सम्बन्धः क्रियते, यद्येवं सर्व सुस्थमिहापि सावद्ययोगनिवृत्तिविपक्षस्य हेयत्वेनाभिप्रेतत्वादिति । 'त्रिविधं त्रिविधेन व्युत्सृजति पाप| मेष्यमित्यादि ( ४८८ - ११ ), विशेषत एष्यमिति ब्रुवाणस्य कोऽभिप्रायः १, उच्यते, सावद्ययोगविरत इत्यनेनैव गतार्थे त्रिविधं त्रिविधेन व्युत्सृजति पापमिति यद्वितीयपदोपादानं तेनैवं किल ज्ञापयति यत्र सावद्ययोगे प्रवृत्तिरासीत् ततो निवृत्त इति प्रतिपादितं 'सावज्जजोगविरओ' इत्यनेन पदेन यदेष्यं पापं ततोऽनिवृत्त एव किल एष प्रतीयते अतस्तन्नवृत्तिप्रतिपादकं द्वितीयपदमिति विशेषत उक्तं वृत्तिकृता त्रिविधं त्रिविधेन व्युत्सृजति पापमेष्यमिति, कदा पुनरयमेवंविधः कर्त्ता भवतीत्याह - 'सामायिकादौ' ( ४८८ - १२ ), सामायिकारम्भसमय इत्येवं सम्बन्धो, यदा तु सामायिकादौ सूत्र इत्यनेन द्वितीयव्याख्यानेन 'करेमि भंते ! सामाइय मित्यादिसूत्रं गृह्यते तदेत्थं सम्बन्धः, एषोऽनुगमः परिसमाप्तः, क विषये योऽसावनुगम इत्याह-- 'सामायिकादौ सूत्रे करेमि भंते ! सामाइयमित्यादिसूत्रविषय इत्यर्थः । सामायिकाध्ययनं समाप्तमिति ॥ अधुना चतुर्विंशतिस्तव आरभ्यते 'चतुर्विंशतिस्तवस्य निक्षेपो भवति नामनिष्पन्न' इति ( ४९१ - १५ ), ननु किं तन्नाम यस्य निक्षेपः करिष्यत ational For Private & Personal Use Only ** xxx www.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy