________________
आव० हारि० टीप्पणं
॥७
॥
40540SASARACTICS
करणकारणानुमतय इत्यर्थः तानि मनोऽधीनान्येव भवन्ति, नहि मनोविकल्पमन्तरेण प्रायस्तनुवचनाभ्यां करणादीनि
प्रत्याख्यानं प्रवर्तन्ते अतो मनस्यपि तनुवचनकरणाद्युपचारः क्रियत इति भावः, यदिवा किमत्रोपचारेण ?, यदा हि निर्व्यापारतनुवचनोऽपि सावद्ययोगकरणादि मनसा विकल्पयति तदा मुख्यतयाऽपि तनुवचनवन्मनस्यपि करणादीनि सम्भवन्त्येवेति, आह च–'अह मणकरणं सावजजोगमणण मित्यादि भावितमेवेति । 'अर्थविकल्पसङ्ग्रहार्थं न पुनरुक्त'मिति (४८४-११), अर्थो-मनःप्रभृतिकरणलक्षणः तस्य विकल्पा-भेदाः तत्सङ्ग्रहार्थं त्रिविधेनेत्युच्यमानं न पुनरुक्तं, एतदुक्तं भवति-य एव मनसा वाचा कायेनेत्यनन्तरं सविस्तरं वक्ष्यमाणोऽर्थः स एव त्रिविधेनेत्यनेन सङ्गह्योक्तोऽतः सङ्ग्रहपदत्वादपुनरुक्तमिदमिति । 'अथवा अत्राणमतीतसावद्ययोग'मित्यादि (४८६-१९), न त्राणं अत्राणं-संसारभयात् त्रातुमसमर्थ सावधं योगं जुगुप्से इत्यर्थः, कस्मादित्याह-अधुना सामायिकेन त्राणं मम भविष्यतीति हेतोः, लब्धे हि साम्प्रतं त्राणरूपे सामायिके तमत्राणस्वरूपं सावधं योगं व्युत्सृजामीतिभावः। नन्वेवं सावद्ययोगपरित्यागादित्यादि (४८६-२३) अत्र किल परोऽतीवासम्बद्धप्रलापितया विवक्षितनिर्दोषसम्बन्धेन सम्बन्धितमपि व्युत्सृजामिशब्दमनिप्टसम्बन्धेन सम्बन्धयन्निदमाह-ननु चैवमुक्तन्यायेन 'करेमि भंते ! सामाइय'मित्यादिसूत्रस्यायं तात्पर्यार्थो गम्यते, यदुत-सावद्ययोगपरित्यागेन करोमि भदन्त ! सामायिकमिति, एवं सति सावद्ययोगनिवृत्तिरत्र प्रतीयते, पर्यन्ते च 'तस्स 51 भंते ! पडिकमामी'त्यादौ तस्य व्युत्सृजामीतिशब्दप्रयोगे सतीदमनिष्टमापद्यते तस्य-अनन्तरसामर्थ्यलब्धसावद्ययोगनिवर्त्त-G॥ ७७॥ नस्य व्युत्सृजामि-सावद्ययोगस्य निवृत्तिमुत्सृज्य प्रवृत्तिं विदधामीत्यर्थः, अत्रोत्तरमाह-'तन्ने'त्यादि (४८६-२४),IA
Jain Educational
For Privale & Personal Use Only
Plainelibrary.orप