Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पमाह-पंचासव'गाहा (५१८-११), आश्रवति-आदत्ते जीवः कर्म यैस्ते आश्रवाः हिंसानृतस्तैन्याब्रह्मपरिग्रहलक्षणाः पञ्च तत्प्रवृत्तः-तदासेवनरतो यस्त्रिषु ऋद्धिरससातगौरवेषु प्रतिबद्धः “इत्थिगिहिसंकिलिट्ठो"त्ति स्त्रीसंक्लिष्टो गृहिसंकिष्टश्च. तत्र-स्त्रीप्रतिषेवी-स्त्रीसंक्लिष्टः, गृहिसम्बन्धिनां तु द्विपदचतुष्पदधनधान्यादीनां तप्तिकरणप्रवृत्तो गृहिसंक्लिष्टः, एवम्भूतः संसक्तोऽतिशयेनाविशुद्धत्वात् संक्लिष्टोऽभिधीयते इति गाथार्थः । असंक्लिष्टस्वरूपमाह-'पासत्थाइएसुगाहा (५१८-१२), गतार्था, उक्तोऽसंक्लिष्टः । इदानीं यथाच्छन्दस्वरूपमाह-'उस्सुत्त'गाहा (५१८-१३), उत्सूत्रमाचरन्-उत्सूत्रं प्रज्ञापयन्नेष यथाच्छन्द इच्छाच्छन्दश्चेत्येकार्थों शब्दावितिगाथार्थः । उत्सूत्रं किमुच्यत ? इत्याह-'उस्सुत्त'गाहा (५१८-१४),व्याख्याउत्सूत्रं किमित्याह-यदनुपदिष्टं तीर्थकरगणधरैः स्वच्छन्देन-स्वाभिप्रायेण विकल्पितं-उत्प्रेक्षितं अत एव सिद्धान्ताननुपाति-सिद्धान्तबहिर्भूतमित्यर्थः, यथाच्छन्दस्यैव स्वरूपान्तरमाह-परतप्तिप्रवृत्तः,तिंतिणो नाम यः स्वल्पेऽपि केनचिदपराद्धोऽ. नवरतं पुनः २ झपन्नेवास्ते एप यथाच्छन्द इति गाथार्थः । यथाच्छन्दस्य पुनः स्वरूपान्तरमाह' सच्छंद'गाहा (५१८-१५)|| स्वच्छन्दा-आगमनिरपेक्षा याऽसौ मतिस्तया किश्चिदालम्बनमध्ययनादिकं विकल्प्य-उत्प्रेक्ष्य ततः सुखं स्वादयतीति सुखस्वादः स चासौ विकृतिप्रतिबद्धश्च, मिथ्यालम्बनं किञ्चिद्विकल्प्य यःसुखलिप्सुर्विकृतिप्रतिबद्धो भवतीत्यर्थः, तथा त्रिभिगौरवैः ऋद्धिरससातलक्षणः यो माद्यति तं जानीहि यथाच्छन्दमिति गाथार्थः॥अत्र क्वचिदग्रपिण्डभोजित्वादिनाऽल्पदोषेण कचित्तु स्त्रीसेवादिना महादोषेणावन्द्यत्वमुक्तमिति तत्त्वं न ज्ञायते अतःकिञ्चिद्विशेषज्ञानार्थ कल्पस्य भाष्यं चूर्णिणश्च किश्चिदुच्यते"संकिन्नवराहपयोअणाणुतावी य होइ अवरद्धे । उत्तरगुणपडिसेविअ आलंबणवजिओ वजो ॥१॥अत्र चूर्णिः-संकिन्नो
PRACOCALCCCCCCCC
JainEducation T
iral
For Private
Personal Use Only
Khainelibrary.org

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242