Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 190
________________ आव० हारि० टीप्पणं SANSACTICAROSAROSA ॥९२॥ गारकथेति चतुर्विधापि पाठसिद्धा, नवरं-'चामीयरसूरवपु'त्ति (५८१-१६), चामीकर-सुवर्ण सूर्यः-आदित्यस्तद्वत् । प्रतिककान्तं-दीप्तिमद् वपुर्यस्य राज्ञः स तथा। इदानीं ध्यानशतमारभ्यते । 'किं तर्हि ?-भावनानुप्रेक्षात्मकं चेत'इति मणाध्य. (५८४-५) एतदुक्तं भवति-यदा धर्मध्यानादवतरति तदा एकोऽहमशरणश्चेत्याद्या इहैव वक्ष्यमाणा अनुप्रेक्षा विभावयति, पुनरपि च धर्मध्यानादिध्यानमारुरुक्षुर्भावनाः-ज्ञानदर्शनाद्या वक्ष्यमाणस्वरूपाः परिभावयति, एतद्ध्यानान्तरमुच्यते न पुनरेकस्माद् ध्यानादवतीर्यानन्तरमेवान्यद् ध्यानं प्रतिपद्यते अनुप्रेक्षाभावनान्तरितं तु प्रतिपद्यते ततोऽप्युत्तीर्णस्यायमेव क्रम इत्येवं ध्यानसन्तानो भवत्यपीति । 'पूर्वमपि वियुक्तासंयुक्तयोबहुमतत्वेने त्यादि (५८५-२), यदतीतकाले ममामुकः |संयुज्य वियुक्तः आदित एव वा न संयुक्तस्तत्सुन्दरमभूद् इत्यतीतमनुमोदमानस्यातीतकालविषयमप्यात भवतीति । |'जूइयरसोलमिंठा'गाहा (५९२-२०) सुगमा, नवरं सोलाः-स्थानपालाः उद्भ्रामकाः-पारदारिकाः। 'आज्ञापायविपाकसंस्थानविचयाय धर्म मिति (५९५-७), विचयः परिचयोऽभ्यास इत्यनान्तरं, अनन्तरवक्ष्यमाणन्यायेनाज्ञाद्यभ्यासाय प्रवर्त्तमानस्य धर्मध्यानं भवतीत्यर्थः। 'किं च प्रदेशभिन्नं शुभाशुभं यावत् 'कृत्वा पूर्वविधान'मि|त्यादि (५९९-१) पूर्वमहर्षिवचनत्वाद्गम्भीरमिदमस्मादृशामगम्यं, आम्नायानुसारतस्तु गमनिकामात्रं किञ्चिदुच्यते-इह , प्रदेशभिन्नः-शुभाशुभरूपः कर्मविपाको भावनीयः, प्रदेशाश्च जीवस्य कर्माणवोऽभिधीयन्ते, तैश्च कियद्भिरेकैको जीव- ॥९ ॥ प्रदेश आवेष्टितः परिवेष्टित इति चिन्तनीयं, अयं च प्रदेशबन्धः कर्मप्रकृत्यादिषु विस्तरेणाभिहितोऽत एव शुभाशुभं यावदित्यत्र शास्त्रकृद् यावच्छब्दं चकार, स चात्र संक्षेपतः कथ्यते-असंख्यातप्रदेशस्यापि जीवस्यासत्कल्पनया किल षट्प R OGRAMSAROCED Jain Educationix For Private & Personal Use Only Mainelibrary.org

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242