Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 188
________________ आव० हारि० टीप्पणं ॥९१॥ तीर्थस्य, कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः॥१॥” इत्यादिसौगतादिकल्पिते, किं कृत्वा | प्रतिक्रयो भावक्षय इत्याह-निःशेषक्षयं प्रतीत्य, केषां निःशेषक्षय ? इत्याह-एतेसिं'ति एतेषां, तान्येव दर्शयति-द्वयोरप्यावर- मणाध्य. णयोः-ज्ञानदर्शनावरणलक्षणयोर्खप्तविभक्तित्वान्निर्देशस्य, तथा मोहान्तराययोरित्येषां निश्शेषक्षयमाश्रित्येति सार्द्धगाथार्थः। सान्निपातिकभावसम्बन्धित्वेनोत्तमत्वमाह-'हवइ पुणो'इत्यादि (५७०-१५) सुबोधं । 'निर्लेपं-पृथुकादी'ति (५७२-१२) पृथुकशब्देन पहुंको भण्यते, स हि किलोदूखले कण्डितो भर्जितश्च वतिनां ग्राह्यो भवति नान्यथेति । 'मंडीपाहुडि' गाहा (५७५-२०) मण्डीप्राभृतिकोच्यते, केयमित्याह-साधावागते 'अग्गकूर मंडीए'त्ति सिद्धान्तशैल्या किलाग्रकूरं|संस्कृतभक्तशिखागतौदनलक्षणं मण्डीशब्देनोच्यते, ततश्चाग्रकूर-मण्डी तस्या मध्यात् किञ्चिदुत्क्षिप्य 'तो'त्ति ततः साधवे ददातीति संटङ्को, यदिवा तदग्रकूरं स्थाल्या उद्धृत्त्यान्यस्मिन् भाजने कृत्वा-उत्सार्येत्यर्थः, ततश्च तस्यां स्थाल्यामुद्धृते | अग्रकूरे यच्छेषं स्थितं तन्मध्यादपि यदि ददाति तथापि मण्डीप्राभृतिकैवेतिगाथार्थः । 'चंडरुद्दो आयरिओ उज्जेणि'मित्यादि (५७७-२०), अत्र अणुजाणशब्देन रथयात्रोच्यते । ऋद्धिप्रात्यभिमानाप्राप्तिसंप्रार्थनद्वारेणेति (५७९-१९), ॥९१॥ एतदुक्तं भवति-ऋद्धिप्राप्तौ सत्यामभिमान-अहंकारलक्षणं करोति अप्राप्तौ च प्रार्थनं तद्द्वारेण चाशुभभावगौरवमा|त्मनः पुष्णाति एवं रसादिष्वपीति ॥'अविवित्तयाए'त्ति (५८०-२३), एतदुक्तं भवति-यदा क्षणदृष्टनश्वरेभ्यो धनकनकादिभ्यः स्वात्मानमनाद्यनिधनमपि विविक्तं-पृथग्भूतं न पश्यति किन्तु तद्धनकनकादिकं स्वतत्त्वतयाऽध्यवस्यति तदा अविविक्ततया तीव्रा परिग्रहसंज्ञा प्रादुरस्ति । 'भत्तकहावि चउबिहे त्यादि (५८१-५), गाथात्रयं-इह भक्तकथा Jain Education For Private & Personal Use Only

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242