Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
चता, तद्यथा-आवापकथा निर्वापकथा आरम्भकथा निष्ठानकथा चेति, एतानेव चतुरो भेदान्विवृणोति-'आवावे'त्ति इत्यादि, 'आरंभेत्यादि (५८१-७) अमुकस्य राज्ञः सार्थवाहादेर्वा रसवत्यां दश शाकविशेषाः पञ्च पलानि सर्पिस्तथाssढकस्तन्दुलानामुपयुज्यत इत्यादि यदा सामान्येन विवक्षितरसवतीद्रव्यसंख्याकथां करोति सा आवापभक्तकथोच्यते, 'दसपंचरूव'इति रूपशब्दो भेदवचनः, किमुक्तं भवति ?-पुनरेकैकस्मिन् शाके दशधा पञ्चधा वा संस्कृते सति सर्वेऽप्येतावन्तो व्यञ्जनभेदा भवन्त्येतावन्तश्च कूररूपादिभेदास्तत्र जायन्ते इत्यादि विशेषतो व्यञ्जनभेदादिकथा निर्वापभक्तकथेष्यते । 'आरंभेति आरम्भभक्तकथा केत्याह-ग्रामनगराद्याश्रयाश्छागमहिषादयः आरण्यका-आटविकास्तित्तिरकुरङ्गलावकादयः एतावन्तोऽमुकस्य रसवत्यां हत्वा संस्क्रियन्त इत्येवंरूपा, निष्ठानकथामाह-अमुकस्य रसवत्यां रूपकशतं लगत्यमुकस्य | पञ्च शतानि तावद्यावदमुकस्य लक्षपाका रसवती भवतीत्येवंस्वरूपा निष्ठानकथेति गाथाद्वयार्थः । देशकथा चतुर्द्धा तद्यथाछन्दकथा विधिकथा विकल्पकथा नेपथ्यकथा, तत्र छन्दकथामाह-'छन्दो गम्मागम्म'मित्यादि सुगमं नवरं 'अन्नेसिं एगा पंचण्ह'त्ति ( ५८१-१०) अन्येषां क्वचिद्देशे पञ्चानामेकैव भार्या भवति विधिर्विरचनोच्यते तत्कथामाह-भोअणेत्यादि (५८१-११), सुगमा नवरं चउरंतगः-परिणयनस्थानं चतुरिकोच्यते, शस्यनिष्पत्त्यादिका विकल्पकथा सुगमा । नेपथ्यकथामाह-'इत्थीण'मित्यादि सुबोधं, नवरं 'भेडिग'त्ति (५८१-१४ ), जालिकारहिता कञ्चलिकोच्यते पृष्ठिखडप-10 कस्य भेदितत्वाद्-जालिकारहितत्वेन निरन्तरत्वादितिभावः। 'जालिग'त्ति अनेन सैव जालिकासहितोच्यते, एवं तावद् गम्यतेऽभियुक्तेन त्वन्यथापि भाव्यमिति । राजकथा चतुर्की, तद्यथा-निर्गमकथा प्रवेशकथा बलवाहनकथा कोशकोष्ठा
Jain Educati
o
n
For Private & Personal Use Only
HRw.dainelibrary.org

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242