SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ चता, तद्यथा-आवापकथा निर्वापकथा आरम्भकथा निष्ठानकथा चेति, एतानेव चतुरो भेदान्विवृणोति-'आवावे'त्ति इत्यादि, 'आरंभेत्यादि (५८१-७) अमुकस्य राज्ञः सार्थवाहादेर्वा रसवत्यां दश शाकविशेषाः पञ्च पलानि सर्पिस्तथाssढकस्तन्दुलानामुपयुज्यत इत्यादि यदा सामान्येन विवक्षितरसवतीद्रव्यसंख्याकथां करोति सा आवापभक्तकथोच्यते, 'दसपंचरूव'इति रूपशब्दो भेदवचनः, किमुक्तं भवति ?-पुनरेकैकस्मिन् शाके दशधा पञ्चधा वा संस्कृते सति सर्वेऽप्येतावन्तो व्यञ्जनभेदा भवन्त्येतावन्तश्च कूररूपादिभेदास्तत्र जायन्ते इत्यादि विशेषतो व्यञ्जनभेदादिकथा निर्वापभक्तकथेष्यते । 'आरंभेति आरम्भभक्तकथा केत्याह-ग्रामनगराद्याश्रयाश्छागमहिषादयः आरण्यका-आटविकास्तित्तिरकुरङ्गलावकादयः एतावन्तोऽमुकस्य रसवत्यां हत्वा संस्क्रियन्त इत्येवंरूपा, निष्ठानकथामाह-अमुकस्य रसवत्यां रूपकशतं लगत्यमुकस्य | पञ्च शतानि तावद्यावदमुकस्य लक्षपाका रसवती भवतीत्येवंस्वरूपा निष्ठानकथेति गाथाद्वयार्थः । देशकथा चतुर्द्धा तद्यथाछन्दकथा विधिकथा विकल्पकथा नेपथ्यकथा, तत्र छन्दकथामाह-'छन्दो गम्मागम्म'मित्यादि सुगमं नवरं 'अन्नेसिं एगा पंचण्ह'त्ति ( ५८१-१०) अन्येषां क्वचिद्देशे पञ्चानामेकैव भार्या भवति विधिर्विरचनोच्यते तत्कथामाह-भोअणेत्यादि (५८१-११), सुगमा नवरं चउरंतगः-परिणयनस्थानं चतुरिकोच्यते, शस्यनिष्पत्त्यादिका विकल्पकथा सुगमा । नेपथ्यकथामाह-'इत्थीण'मित्यादि सुबोधं, नवरं 'भेडिग'त्ति (५८१-१४ ), जालिकारहिता कञ्चलिकोच्यते पृष्ठिखडप-10 कस्य भेदितत्वाद्-जालिकारहितत्वेन निरन्तरत्वादितिभावः। 'जालिग'त्ति अनेन सैव जालिकासहितोच्यते, एवं तावद् गम्यतेऽभियुक्तेन त्वन्यथापि भाव्यमिति । राजकथा चतुर्की, तद्यथा-निर्गमकथा प्रवेशकथा बलवाहनकथा कोशकोष्ठा Jain Educati o n For Private & Personal Use Only HRw.dainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy