SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ पमाह-पंचासव'गाहा (५१८-११), आश्रवति-आदत्ते जीवः कर्म यैस्ते आश्रवाः हिंसानृतस्तैन्याब्रह्मपरिग्रहलक्षणाः पञ्च तत्प्रवृत्तः-तदासेवनरतो यस्त्रिषु ऋद्धिरससातगौरवेषु प्रतिबद्धः “इत्थिगिहिसंकिलिट्ठो"त्ति स्त्रीसंक्लिष्टो गृहिसंकिष्टश्च. तत्र-स्त्रीप्रतिषेवी-स्त्रीसंक्लिष्टः, गृहिसम्बन्धिनां तु द्विपदचतुष्पदधनधान्यादीनां तप्तिकरणप्रवृत्तो गृहिसंक्लिष्टः, एवम्भूतः संसक्तोऽतिशयेनाविशुद्धत्वात् संक्लिष्टोऽभिधीयते इति गाथार्थः । असंक्लिष्टस्वरूपमाह-'पासत्थाइएसुगाहा (५१८-१२), गतार्था, उक्तोऽसंक्लिष्टः । इदानीं यथाच्छन्दस्वरूपमाह-'उस्सुत्त'गाहा (५१८-१३), उत्सूत्रमाचरन्-उत्सूत्रं प्रज्ञापयन्नेष यथाच्छन्द इच्छाच्छन्दश्चेत्येकार्थों शब्दावितिगाथार्थः । उत्सूत्रं किमुच्यत ? इत्याह-'उस्सुत्त'गाहा (५१८-१४),व्याख्याउत्सूत्रं किमित्याह-यदनुपदिष्टं तीर्थकरगणधरैः स्वच्छन्देन-स्वाभिप्रायेण विकल्पितं-उत्प्रेक्षितं अत एव सिद्धान्ताननुपाति-सिद्धान्तबहिर्भूतमित्यर्थः, यथाच्छन्दस्यैव स्वरूपान्तरमाह-परतप्तिप्रवृत्तः,तिंतिणो नाम यः स्वल्पेऽपि केनचिदपराद्धोऽ. नवरतं पुनः २ झपन्नेवास्ते एप यथाच्छन्द इति गाथार्थः । यथाच्छन्दस्य पुनः स्वरूपान्तरमाह' सच्छंद'गाहा (५१८-१५)|| स्वच्छन्दा-आगमनिरपेक्षा याऽसौ मतिस्तया किश्चिदालम्बनमध्ययनादिकं विकल्प्य-उत्प्रेक्ष्य ततः सुखं स्वादयतीति सुखस्वादः स चासौ विकृतिप्रतिबद्धश्च, मिथ्यालम्बनं किञ्चिद्विकल्प्य यःसुखलिप्सुर्विकृतिप्रतिबद्धो भवतीत्यर्थः, तथा त्रिभिगौरवैः ऋद्धिरससातलक्षणः यो माद्यति तं जानीहि यथाच्छन्दमिति गाथार्थः॥अत्र क्वचिदग्रपिण्डभोजित्वादिनाऽल्पदोषेण कचित्तु स्त्रीसेवादिना महादोषेणावन्द्यत्वमुक्तमिति तत्त्वं न ज्ञायते अतःकिञ्चिद्विशेषज्ञानार्थ कल्पस्य भाष्यं चूर्णिणश्च किश्चिदुच्यते"संकिन्नवराहपयोअणाणुतावी य होइ अवरद्धे । उत्तरगुणपडिसेविअ आलंबणवजिओ वजो ॥१॥अत्र चूर्णिः-संकिन्नो PRACOCALCCCCCCCC JainEducation T iral For Private Personal Use Only Khainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy