SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ आव० हारि० टीप्पणं ॥८३॥ षधादयः प्रकटाः, एतच्चोपलक्षणमात्रं, अतः शेषाण्यपि शरीरोपधिधारणादीन्यकारणे कुर्वश्चरणकुशीलोभवतीति गाथार्थः॥ पार्श्वस्था| उक्तस्त्रिविधः कुशीलः, इदानीं संसक्तस्वरूपमाह-'संसत्तोयगाहा 'एमेव य'गाहा (५१८-७), संसक्त इदानीमुच्यते, स दिभेदाः पुनः संसक्तः कस्माद् भण्यत इति द्वितीयगाथान्ते सम्बन्धः, कस्मादित्याह-यस्मात् मूलगुणविषयिण उत्तरगुणविषयिणश्च 31 ये केचन दोषा गुणाश्च ते तस्मिन् सन्निहिताः सर्वेऽपि प्राप्यन्त इति, कथं सन्निहिता ? इत्याह-एवमेव, क ? यथा इति दृष्टान्तमाह-"गोभत्तलंदए चेव"त्ति चेवशब्दो यथाशब्दार्थो, यथा गोभक्तकलन्दके यत्किञ्चिदुच्छिष्टमनुच्छिष्टं वा तत्सर्व क्षिप्यते, एवमेव संसक्तेऽपि ये केचन मूलोत्तरगुणदोषास्ते सर्वे प्राप्यन्ते, एतदुक्तं भवति-यथा गोमहिष्यादीनां खादनकलन्दके उच्छिष्टमनुच्छिष्टं वा भक्तखलकासिकादि सबै प्रक्षिप्तं प्राप्यते तथा मूलोत्तरगुणविषयिणो ये केचन दोषा गुणाश्च ते सर्वेऽपि तत्र प्राप्यन्ते तस्मात्संसक्तोऽसावभिधीयते इति गाथाद्वयार्थः ॥ पुनः प्रकारान्तरेण तत्स्वरूपमाह-'राय' गाहा 'एवमेवगाहा (५१८-९), यथा राजविदूषको राज्ञः केलिपात्रं ततश्चैव बहुरूपी भवति, नटो वा यथा बहूनि रूपाणि करोति, "अहवाविमेलगो उ"त्ति अनुस्वारोऽलाक्षणिकः अथवापि यथा एलकः-ऊरणको हरिद्रारागादिना बहुवर्णो भवति हरिद्रया उपलिप्तः पीतो भवति पुनः प्रक्षाल्य गुलिकया रञ्जितः कृष्णो भवति, पुनः प्रक्षाल्य हिङ्गलकेन रञ्जितो रक्तो भवति एवं प्रक्षाल्य २ पुनः २ वस्त्वन्तरेणोपरज्यमानो बहुवर्णो भवति एवमेवायमपि यादृशेन शुद्धेनाशुद्धेन वाऽपि सह संमिलति तत्र तादृश एव भवति, धार्मिकमध्ये मिलितो धार्मिकमात्मानं दर्शयति इतरेषु त्वितररूपं तस्मात्संसक्तो भण्यते इति ॥ ८३ ॥ गाथाद्वयार्थः ॥ स च द्विविधः सामान्येन भवतीत्याह-'सो दुविगप्पो'गाहा (५१८-१०), सुगमा संक्लिष्टसंसक्तस्य स्वरू For Private Personal Use Only N Jan Education le w.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy